Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
एवतपश्चरणान्मुनिरिवमुनिस्तस्मिन्कृपाणं खड्गं विसृजनिक्षिप यतोरामस्या करुणस्य गात्रं शरीरमसि । निर्भरमतिशयेनगर्भखिन्नायाः सीतायाःप्रवासनं निर्वासनंतत्रपटोईट स्येत्यर्थः । अत्ररामपदमकरुणत्वरूपार्थीतरसंक्रमितं । तदतिशयोव्यंग्यः । सचात्यंत मित्यनेनोक्तः । ध्वनिभावास्पदानिध्वनिप्रयोजकानि। व्यवस्थितत्वादिति । ' शब्दा र्थशतयाक्षिप्तो पिव्यंग्योर्थः कविनापुनः॥ यत्राविष्क्रियते स्वोक्तयासान्यैवालंकृतिर्ध्वनेः' इतिध्वनिकारवचनेननिर्णीतत्वादित्यर्थः । उक्ताविति । 'निषेधाभासमाक्षेपं बुधाः केच नमन्वते ॥ आक्षेपोन्यो विधौव्यक्तनिषेधेचतिरोहिते ।।' इत्येताभ्यांना हंदूतीगच्छ गच्छसी त्युदाहरणयोःप्रतिपादितावित्यर्थः । प्रसिद्धत्वाद्वाधितप्रतिद्वंद्वित्वं ॥ १६५ ॥ इतिविधिः॥ हेतोर्हेतुमतासार्द्धवर्णनं हेतुरुच्यते ॥ असावु देतिशीतांशुर्मानच्छेदाय सुनुवाम् ॥ १६६ ॥
यथावा ॥ एषतेविद्रुमच्छायो मरुमार्गइवाधरः ॥ कस्यनोतनु तेतन्विपिपासाकुलितंमनः ॥ मानेनेच्छतिवारयत्युपशमेक्ष्मा मालिखं त्यांहियस्वातंत्र्ये परिवृत्य तिष्ठतिकरौ व्याधूयधैर्येगते ॥ तृष्णेत्वामनुबनताफलमियत्प्राप्तंजनेनामुनायत्स्ष्टष्टोनपदास एवचरणस्प्रष्टुंनसंमन्यते ॥ इत्युदाहरणं ॥ १६६ ॥
हेतोरिति । हेतुमताकार्येण । मानच्छेदः कार्यं । एषइति । विद्रुमच्छायः प्रवालकांतिर्वि मरुनिर्जलदेशः गततरुछायश्च । मानेइति । मानेनेच्छति अनिछतिसति एवमुपशमेवा रयतिसति । न्हियांलज्जायक्ष्मां भूमिमा लिखयां | भूम्युल्लेख नस्यतदनुभावत्वात् । स्वा तंत्र्येचपरिवृत्यपराङ्मुखीभूयतिष्ठतिसति । धैर्येकरौव्याधूयममनानुमतमितिसूचना यहस्तधूननं कृत्वा गते सति हे तृष्णेत्खामनुसरताममुनाजनेनैतावत्फलंप्राप्तं यत्पादेनापियो नस्पृष्टः सएवचरण/खीयौस्प्रष्टुंनसम्यक् मन्यते अनुजानातीत्यन्वयः । अत्रतृष्णारूपहे तुतत्कार्ययोः स्पष्टमभिधानं ॥ १६६ ॥
१७६
हेतुहेतुमतोरैक्यं हेतु केचित्प्रचक्षते ॥ लक्ष्मी
विलासाविदुषां कटाक्षावेंकटप्रभोः ॥ १६७॥ अत्रचकार्यावश्यंभावतच्छ्रुघ्यादिप्रत्यायनार्थः कार्यकारणभेद व्यपदेशः । यथावा ॥ आयुर्दानमहोत्सवस्यविनतक्षोणी भृताम्मूर्तिमाविश्वासोनयनोत्सवो मृगदृशां कीर्तेः प्रकाशःप रः ॥ आनंदःकलिताकृतिः सुमनसांवीरश्रियोजीवितंधर्मस्यै

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202