Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 140
________________ १३६ कुवलयानंदः असोढेति । तपस्थंतीमुमांप्रतिबटुवेषेणागतस्य हरस्यवर्णनं । कपटेनयोबटोर्ब्रह्मचा रिणोवेषस्तस्यापनयनेत्यागे खराशैथिल्याभ्यांयुगपदभियुक्त आक्रांतः । खराशैथिल्य हेतुगर्भं क्रमेणविशेषणद्वयमाह । तत्कालेउल्लसन्प्रादुर्भवन्नसहभावोदुःसहत्वमर्याद्गौर्याय स्यतादृशस्यतपसः असोढासहनासमर्थः शैलकन्यायाः कथानां विस्त्रं भेषु विश्वासेषुरसि कश्चेति। ब्रह्मचर्यैब्रह्मचारिवेषः। जीयादिति । अंबुधेस्तनयायालक्ष्म्या अधररसमास्वा दयन्नयंमुरारिर्जीयात्सर्वोत्कर्षेणवर्ततां । कीदृशः । समुद्रमंथनक्लेश मेवंविधांगनालाभा त्सफलं कलयन् जानन् । एतदधरमा धुर्येसस मृतस्यैवैयर्थ्याद्विफलं चकलयन्नियर्थः ॥'हेगोदावरिदेवितावकतटोद्देशेकलिंगः कविर्वाग्देवींबहुदेशद र्शनसखींत्यक्त्वाविरक्तिंगतः ॥ एनामर्णवमध्य सुप्त मुरभिन्ना भीसरोजासनम्ब्रह्माणंगमयक्षितौ कथमसावेकाकिनीस्थास्य ती 'त्यब्रह्मणःप्रापणंकथं गोदावर्याकर्तव्यमित्यसंभावनीया थपपादकस्यार्णवमध्येत्यादितद्विशेषणस्यन्यसनं श्लेषाख्यो गुणइति श्लेषोविघटमानार्थघटकार्थस्यवर्णनमितिश्लेषलक्षण मितिचजयदेवेनेोक्तं । वस्तुतस्त्वत्रापिपदार्थ हे तुकंकाव्यलिंग मेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थ वाक्यार्थविन्यस नरूपात्परिकरात्काव्यलिंगस्यकिभेदकं । उच्यते । परिकरेप दार्थवाक्यार्थबलात्प्रतीयमानार्थी वाच्योपस्कारकतां भजतः । काव्यलिंगेतुपदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्यादिपदार्थहेतुककाव्यलिंगोदाहरणेऽ ग्रेप्यनतिमानित्यादिवाक्यार्थहेतुककाव्य लिंगोदाहरणेच पदा र्थवाक्यार्थावेव हेतुभावं भजतस्तथापिपशुनाप्य पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मच्चित्तेऽस्तित्रिलोचनइतिवाक्यार्थहेतु कोदाररणेच प्रतीयमानार्थस्यापिहेतु कोट्यनुप्रवेशोदृश्यते । पशुनेतिह्यविवेकित्वाभिप्रायगर्भ विदुषीत्यस्य ॥ - हेगोदावरीत्यत्रार्णवमध्येत्यादिब्रह्मविशेषणस्यन्यसनंश्लेषाख्यो गुणइतिजयदेवेनोक्त मित्यन्वयः । तावकतटोडे शेखदीयतीरभूमौक लिंगाख्यः कविर्वहून देशानां दर्शनसह चारिणींविरक्तिमुक्तिएनांसरस्वतीं ब्रह्माणंप्रतिगमयनयेतिसंबंधः । कीदृशं । अर्ण वमध्ये मुसोयोमुरभिन्मुरारिस्तन्नाभिकमलस्थं । श्लेषोऽविघटमानेत्यत्र । कारण श्लेषः ।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202