________________
१३६
कुवलयानंदः
असोढेति । तपस्थंतीमुमांप्रतिबटुवेषेणागतस्य हरस्यवर्णनं । कपटेनयोबटोर्ब्रह्मचा रिणोवेषस्तस्यापनयनेत्यागे खराशैथिल्याभ्यांयुगपदभियुक्त आक्रांतः । खराशैथिल्य हेतुगर्भं क्रमेणविशेषणद्वयमाह । तत्कालेउल्लसन्प्रादुर्भवन्नसहभावोदुःसहत्वमर्याद्गौर्याय स्यतादृशस्यतपसः असोढासहनासमर्थः शैलकन्यायाः कथानां विस्त्रं भेषु विश्वासेषुरसि कश्चेति। ब्रह्मचर्यैब्रह्मचारिवेषः। जीयादिति । अंबुधेस्तनयायालक्ष्म्या अधररसमास्वा दयन्नयंमुरारिर्जीयात्सर्वोत्कर्षेणवर्ततां । कीदृशः । समुद्रमंथनक्लेश मेवंविधांगनालाभा त्सफलं कलयन् जानन् । एतदधरमा धुर्येसस मृतस्यैवैयर्थ्याद्विफलं चकलयन्नियर्थः ॥'हेगोदावरिदेवितावकतटोद्देशेकलिंगः कविर्वाग्देवींबहुदेशद र्शनसखींत्यक्त्वाविरक्तिंगतः ॥ एनामर्णवमध्य सुप्त मुरभिन्ना भीसरोजासनम्ब्रह्माणंगमयक्षितौ कथमसावेकाकिनीस्थास्य ती 'त्यब्रह्मणःप्रापणंकथं गोदावर्याकर्तव्यमित्यसंभावनीया
थपपादकस्यार्णवमध्येत्यादितद्विशेषणस्यन्यसनं श्लेषाख्यो
गुणइति श्लेषोविघटमानार्थघटकार्थस्यवर्णनमितिश्लेषलक्षण मितिचजयदेवेनेोक्तं । वस्तुतस्त्वत्रापिपदार्थ हे तुकंकाव्यलिंग मेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थ वाक्यार्थविन्यस नरूपात्परिकरात्काव्यलिंगस्यकिभेदकं । उच्यते । परिकरेप दार्थवाक्यार्थबलात्प्रतीयमानार्थी वाच्योपस्कारकतां भजतः । काव्यलिंगेतुपदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्यादिपदार्थहेतुककाव्यलिंगोदाहरणेऽ ग्रेप्यनतिमानित्यादिवाक्यार्थहेतुककाव्य लिंगोदाहरणेच पदा र्थवाक्यार्थावेव हेतुभावं भजतस्तथापिपशुनाप्य पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मच्चित्तेऽस्तित्रिलोचनइतिवाक्यार्थहेतु कोदाररणेच प्रतीयमानार्थस्यापिहेतु कोट्यनुप्रवेशोदृश्यते । पशुनेतिह्यविवेकित्वाभिप्रायगर्भ विदुषीत्यस्य ॥ - हेगोदावरीत्यत्रार्णवमध्येत्यादिब्रह्मविशेषणस्यन्यसनंश्लेषाख्यो गुणइतिजयदेवेनोक्त मित्यन्वयः । तावकतटोडे शेखदीयतीरभूमौक लिंगाख्यः कविर्वहून देशानां दर्शनसह चारिणींविरक्तिमुक्तिएनांसरस्वतीं ब्रह्माणंप्रतिगमयनयेतिसंबंधः । कीदृशं । अर्ण वमध्ये मुसोयोमुरभिन्मुरारिस्तन्नाभिकमलस्थं । श्लेषोऽविघटमानेत्यत्र । कारण श्लेषः ।