________________
चांद्रकासमेतः
१३५ कंयासपर्यापूजातत्सुखस्यालोकःप्रकाशस्तदुच्छेदके । निलीयामहेवयमित्यर्थात्।चिकु रेति । चिकुरप्रकराः केशपाशाः। विदुषीपंडितासादमयंती। अपुरस्कृतेनानादृतेन पुरोभागेऽनिहितेनच । पदार्थश्चानेकपदार्थश्च ॥
यथावा ॥ वपुःप्रादुर्भावादनुमितमिदंजन्मानपुरापुरारेनक्का पिक्वचिदपिभवंतंप्रणतवान् ॥ नमन्मुक्तःसंप्रत्यहमतनुरये प्यनतिमानितीशक्षंतव्यंतदिदमपराधद्वयमपि॥ अत्रतावद पराधद्वयंसमर्थनीयं । अस्पष्टार्थत्वात्।तत्समर्थनंचपूर्वापरज न्मनोरनमनाभ्यांवाक्यार्थभूताभ्यांक्रियते । अत्रद्वितीयवा क्यार्थेऽतनुत्वमेकपदार्थोहेतुः । अत्रापिसंप्रतिनमन्मुक्तइति वाक्यार्थोनेकपदार्थोवाहेतुः । क्वचित्परस्परविरुद्धयोःसमर्थ
नीययोरुभयोःक्रमादुभौहैतुभावंभजतः ॥वपुरिति । पुरापूर्वस्मिन्कापिजन्मनिकचिदपिक्षणेभवंतनप्रणतवान् । इतीदंवपुषः शरीरस्यप्रादुर्भावादनुमितं । संप्रतिनमन्नतिकुर्वन्मुक्तः। अतनुरशरीरः। अहमग्रेप्यनति मान्नतिरहितः । समर्थनीयहेतुकथनेनोपपादनीयं । अस्पष्टार्थवादस्पष्टहेतुकखात् । अत्रानयोर्वाक्यार्थयोर्मध्ये । द्वितीयवाक्यार्थेअग्रेप्यनतिमानितिवाक्यार्थे । अत्राप्यतनु त्वेपि । नमन्मुक्तइत्यस्यावाक्यखादाह अनेकपदार्थोवेति ॥
यथा ॥ असोढातत्कालोल्लसदसहभावस्यतपसःकथानांवि स्त्रेभेष्वथचरसिक शैलदुहितुः॥ प्रमोदंवोदिश्यात्कपटबटुवे पापनयनेत्वराशैथिल्याभ्यांयुगपदभियुक्तःस्मरहरः॥ अत्रशि वस्ययुगपत्कृत्रिमब्रह्मचर्यवेषापनयनत्वरातदनुवर्तनेच्छयो विरुद्धयोःकमागिरिजातीव्रतपसोसहिष्णुत्वंतत्संल्लापकौतुकं चेत्युभावाँहेतुत्वेननिबद्धौ । क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेकएवहेतुः । यथा ॥जीयादबुधितनयाधररस मास्वादयन्मुरारिरयं ॥ अंबुधिमथनक्लेशंकलयविफलंच सफलंच ॥अत्रविफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरे कएवांबुधितनयाधररसास्वादोहेतुः । इदंकाव्यलिंगहत्वलं कारइतिकेचिद्व्याजद्दुः ॥