SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३४ कुवलयानंद: व्यमानत्वमिति वैचित्र्यं तुतदवांतरभेदतायाः साधकं नतुतद्बहिर्भूतताया इतिनतत्राव्या प्तिशंकापीसलंविस्तरेण ॥ ११९ ॥ इर्थापत्तिरलंकारः ॥ समर्थनीयस्यार्थस्यकाव्यलिंगंसमर्थनं ॥ जि तोसि मंदकंदर्पमच्चित्तेऽस्तित्रिलोचनः ॥ १२० ॥ अत्रकंदर्पजयोपन्यासोदुष्करविषयत्वात्समर्थन सापेक्षः । त स्यमच्चित्ते स्तित्रिलोचनइतिस्वान्तःकरणेशिवसन्निधानप्रदर्श नेनसमर्थनंकाव्यलिंगं । व्याप्तिधर्मतासापेक्षनैयायिकलिं गव्यावर्तनायकाव्यविशेषणं । इदंवाक्यार्थहेतुकंकाव्यलिं गंपदार्थहेतुकं ॥ संमर्थनीयस्येति । समर्थनापेक्षस्यार्थस्य समर्थनकाव्यलिंगमलंकारः । अर्थातरन्या सवारणायसमर्थनापेक्षस्येति । यदात्वर्थीतरन्यासप्रकरणेवक्ष्यमाणरीत्या सामान्यवि शेषभावातिरिक्तखंनिवेश्यते तदानोपादेयमेवैतदितिबोध्यं । दुष्करविषयत्वात् दुष्कर विषयरूपत्वात् । समर्थनापेक्षस्येसनंतरमर्थस्येतिशेषः । नैयायिकेति । नैयायिकाभि मतलिंगस्यलक्ष्यतावारणायेत्यर्थः ॥ - यथा ॥ भस्मोद्धूलनभद्रमस्तुभवते रुद्राक्षमालेशुभंहासोपान परंपरेगिरिसुताकांतालयालंकृते ॥ आद्याराधनतोषितेनवि भुना युष्मत्स पर्यासुखा लोकोच्छेदिनिमोक्षनामनिमहामोह निलीयामहे ॥ अत्रमोक्षस्यमहामोहत्वमप्रसिद्धमितितत्स मर्थने सुखालोकोच्छेदिनीतिपदार्थोहेतुः । कचित्पदार्थवा क्यार्थी परस्परसापेक्षौ हेतुभावं भजतः । यथावा ॥ चिकुरप्र कराजयंति विदुषीमूर्द्ध नियान्बिभर्त्तिसा ॥ पशुनाप्य पुरस्कृ तेनत तुलनामिच्छतुचामरेणकः ॥ अत्रचामरस्यदमयंतीकुं तलभारसाम्याभावेविदुषी मूर्द्धनियान्बिभर्ति से तिवाक्यार्थः । पशुनाप्य पुरस्कृतेनेतिपदार्थश्चेत्युभयं मिलितं हेतुः क्वचित्सम मीयार्थसमर्थनाथैवाक्यार्थेपदार्थहेतुः ॥ भस्मोद्धूतिसंबोधनं । शुभमस्त्वितिशेषः । गिरिसुताकांतस्यशिवस्यालयःप्रासा दस्तद लंकारभूतेसोपान पंक्तेइत्यपि संबोधनं । हेतिदैन्ये । विभुनाप्रभुणाशिवेन । युष्मा
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy