Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
७६
कुवलयानंदः विस्तारिवान् । तथाचतत्कर्ताव्यासोनभवामीतिव्यज्यते । एवमग्रेपि । वल्मी कतोवल्मीकाजन्माऽस्यास्तीतिजन्मी नभवामीतिशेषः तथाचनावाल्मीकिरिति।अ च्युतस्यनाभौनाऽभवंनोत्पन्नाइसनेननाचतुर्मुखइति । सुमहद्भाष्यंमहाभाष्यंचना भाषिषंनभाषितवानियनेननाहंसहस्रजिव्ह शेषइति । चित्रोविचित्रोर्थोयस्यास्तां हत्कथांनअचकथंकथितवानियनेननाहतद्वक्ताशिवोगुणाढ्योवेति । मुत्राम्णिइंद्रेगुरुरु पदेशकोनासमिसनेननाईवाक्पतिरितिचव्यज्यते ।
तत्राद्ययोरुदाहरणयोरेकैकंविशेषणंसमनंतरयोःप्रत्येकंबहूनि विशेषणानि । तत्रापिप्रथमोदाहरणेसर्वाणिविशेषणान्ये काभिप्रायगर्भाणिपदार्थरूपाणिच । द्वितीयोदाहरणेभिन्ना भिप्रायगर्भाणिवाक्यार्थरूपाणिचेतिभेदः । एतेषुव्यंग्यार्थस द्भावेपिनध्वनिव्यपदेशः। शिवस्यतापहरणेमन्मथस्यकैमुति कन्यायेनसर्वधन्विधैर्यभंजकत्वेशरीरसंरक्षणार्थपापमाचरतां मूढत्वेस्वस्यवर्णनीयराजगुणकथनाशक्तत्वेचवाच्यएवोपस्का रकत्वात् । अतएवव्यंग्यस्यवाच्यपरिकरत्वात्परिकरइतिना मास्यालंकारस्य । केचित्तुनिष्प्रयोजनविशेषणोपादानेऽपुष्टा र्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्यदोषाभावमात्रं नकश्चिदलंकारः । एकनिष्ठतादृशानेकविशेषणोपन्यासेपरंवै चित्र्यविशेषात्परिकरइत्यलंकारमध्येपरिगणितइत्याहुः । व स्तुतस्त्वनेकविशेषणोपन्यासएवपरिकरइतिननियमः । श्ले षयमकादिष्वदुष्टार्थदोषाभावेनतत्रैकस्यापिविशेषणस्यसा भिप्रायस्यविन्यासेविच्छित्तिविशेषसद्भावात्परिकरोपपत्तेः।उक्तेदाहरणेषुवैलक्षण्यदर्शयति तत्रेयादिना । एकैकमेकस्यविशेष्यस्यैकमेव स मनन्तरयोरनन्तरोक्तयोःप्रयेकमेकं विशेष्यप्रति तत्रापितयोर्मध्येपि एकाभिप्रायगर्भा ण्येकार्थाभिप्रायपूर्वकाणि । वाक्यार्थेति । नव्यास्थमियादि निषेधवाक्यार्थषट्स्योक्त रीसाहेतुखेनांतिमवाक्यार्थेविशेषणबादितिभावः । एतेषुउक्तोदाहरणेषु । ध्वनिव्यप देशोध्वनिव्यवहारः । तत्रहेतुमाह तापहरणेखादिना । तापहरणेइसादिसप्तम्यंतच तुष्टयस्यवाच्यइसनेनसामाधिकरण्येनान्वयः । उपस्कारकलादिति । तथाचापरांग रूपगुणीभूतव्यंग्यभेदनामध्वनिव्यवहारइतिभावः । नन्वेवमपियथाश्रुतलक्षणस्य

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202