Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 23
________________ वाप्रमादेन धर्मकर्म आचरणीयम् , जीवहिंसाद्यकृत्यं च परिवर्जनीयम् । तत्र अष्टाहिकाः षट् शाश्वत्यः, अन्यास्तु अशाथत्यः। तथाहि "दो' सासयजचाओ तत्थेगा होइ चिचमासम्मि । अट्टाहियाउ महिमा बीया खलु अस्सिणे मासे ॥१॥ एया उ दो वि सासयजचाओ करन्ति सबदेवा वि । नंदीसरम्मि विजाहरा नरा निययठाणेसु ॥२॥ वह चउमासियतियगे पज्जोसवणाइ तह य इय छकं । जिणजम्म-दिक्ख केवल-निबाणाइसु असासईया" ॥३॥ अयमर्थः-एका चैत्रमासे शाश्थती अष्टाहिका, द्वितीया आश्विने मासे, एवं द्वे शाश्वत्यौ-सर्वदा भवत इत्यर्थः । तथा चातुर्मासिकत्रिके आषाढादिके तिस्रः, तथैव पर्युषणापर्वणि एका, इत्येताश्चतस्रोऽन्या अष्टाहिकाः शाश्वत्यः, एवं च षड् भवन्तीत्यर्थः। तथा जिनजन्म-दीक्षा-केवल-निर्वाणकल्याणकादिषु या अष्टाहिकास्ता अशाश्वत्यः-यदेव श्रीमतामहतां जन्मादिकल्याणकानि स्युस्तदैव ता भवन्तीत्यर्थः। एतेषु हि अष्टाहिकोत्सवेषु प्रायः सुरेन्द्राः प्रचुरतरसुरनिकरपरिवृता नन्दीश्वरद्वीपं गत्वा अष्टौ दिनानि यावत् १ वे शाश्वतयात्रे तत्रैका भवति चैत्रमासे । अष्टाहिका महिमा द्वितीया खलु आश्विने मासे ॥१॥ एते तु द्वे अपि शाश्वतयात्रे कुर्वन्ति सर्वदेवा अपि । नन्दीश्वरे विद्याधरा नरा निजकस्थानेषु ॥ २ ॥ तथा चातुर्मासिकत्रिके पर्युषणायां तथा च इति षटूम् । जिनजन्म-दीक्षा-केवल-निर्वाणादिषु अशाश्वतिकाः ॥ ३॥ SASARAYOLOSHIRISHIS*

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124