Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 34
________________ चरित्रम. श्रीयशोध. नराःसतामनादरणीया एव उक्ताः सन्ति, अतः पाषाणमिव कठोरचित्तं भवन्तं नाऽहं निषेद्धमिच्छामि। यदि पुनः पालके स्कन्दाचार्यवद् अहं त्वयि क्रुद्धो भवेयं तर्हि त्वं पुत्र-बान्धवादिसहितो भस्मीभूतः सन् क्षणमपि ॥ ७ ॥ न जीवेः । परम् अहं खकीयप्राग्भवं स्मरन् हिंसातोऽतीव विभेमि । यतः प्राग्भवे मया खल्पमात्रा हिंसा कृताऽभूत्, तद्विपाकात् सप्त भवान्तराण्यहं भ्रान्तः। तेषु च सर्वेष्वपि भवेषु पदे पदे शस्त्रादिभिः खण्ड्यमान आर्तध्यानपरो महादुःखी संजातः । पुनस्तत्र यद् यद् अकृत्यं, यद् यद् अज्ञानं, यद् यद् दुःखं,॥ यद् यच्च मरणम् अहम् अन्वभूवम् तद् वाचा वक्तुमशक्यम् । ज्ञानिन एव तत्वरूपं जानन्ति । अहो! अल्पाया अपि हिंसाया ममेदृग् विपाकः संपन्नः, त्वं तु ईदृशः पापीयान् निर्दयः सन् बहुजीवान् विनाशयसि, अतो न जानेऽहं तव वराकस्य का गतिर्भविष्यति । किञ्च, केऽपि जीवाः कर्मणां फलं श्रुत्वा दुष्कर्मतो निवर्तन्ते, केऽपि कर्मविपाकं दृष्ट्वा वैराग्येण निवर्तन्ते, अहं पुनः कर्मफलं साक्षाद् अनुभूय निवृत्तोऽस्मि । यतोऽहं राजवंशे समुत्पन्नः पराक्रमी भोगलम्पटश्च अभूवम् , परं जातिस्मरणं प्राप्य प्रागनुभूतां कर्मचेष्टाम् | अतिमीमां विलोक्य तरुण एव सन् तपसि स्थितोऽस्मि । मया तु पुरा जीवघातवृक्षस्य फलं प्राप्तम् , अथ दात्वं पुनः किं दुष्प्रापं वस्तु प्राप्तुं अस्मिन् दुष्टे कार्ये श्रमं करोषि । भवन्तं ज्वलदङ्गारगङ्गाम् अवगाहमानम् उद्भ्रान्तं विलोक्य पुराऽनुभूतानि तीबदुःखानि अहं पुनः स्मरामि" । इत्युक्त्वा तस्मिन् मुनीश्वरे मौनेन |स्थिते सति स मारिदत्तभूपालो भयाकुलः सन् शीतात इव कम्पते स्म । तस्मिन्नवसरे तस्य राज्ञो महामोहे

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124