Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
RSSSSSSSS
तया मणितम्-'विज्ञपय महाराजं यथा-तात ! ईदृश एव एष संसारखभावः कस्य वा खजनविज्ञानस्य विरागं न करोति ?, तस्माद् अलमत्र खप्नमात्रविभ्रमेण प्रतिबन्धेन । संपादय कुमारसमीहितम्, अनुजा
नीहि च ममापि प्रव्रज्याम् , यतो ममापि चित्वं भवचारकाद् विरक्तमेव"। सै| एतच्छुत्वा 'अहो मायेन्द्रजालसदृशता जीवलोकस्य !' इति भणित्वा परमसंवेगमुपगतो राजा। मणितं Pाच तेन-'हे पुत्र ! न त्वं मम पुत्रः, अपि च धर्मे नियोजनाद् गुरुः। तस्मादलम् अस्माकमपि अनेन संसार-
परिक्लेशेन, अहमपि त्वया सहैव प्रव्रज्यां ग्रहीष्ये' । एतद् नृपवचः श्रुत्वा राज्ञीभिर्भणितम्-'आर्यपुत्र ।। युक्तमेतत् , किमत्र नटपेटकोपमेऽशाश्वते जीवलोके प्रतिबन्धेन?' ततो यशोधरकुमारेण भणितम्-'यथा-1151 सुखं देवानुप्रिया 1, मा प्रतिबन्धं कुरुत' । ततो राज्ञा दापितं महादानम् , कारिता सर्वाऽर्हचैत्येषु पूजा, संमानितः खजनादिलोकः, स्थापितश्च खलघुपुत्रो यशोवर्धनाऽभिधानो राज्ये । ततो राजा यशोधरकुमारेण खराज्ञीमिरीशानसेननृपपुत्र्या विनयमत्या प्रधानजनपदेन च सह सुगृहीतनामधेयस्य भगवत इन्द्रभूतिगुरोः समीपे प्रव्रज्यामग्रहीत् । सर्वैरपि चिरकालं प्रपालितः साधुधर्मः। ततः कियता कालेन अनेकसाधुपरिवृतो यशोधरमुनीश्वरो प्रामानुग्रामं विचरन् सुसमपुरासन्ने सिद्धार्थनाम्नि उद्यानेऽशोकतरोतले निरवद्यभूमी समवस्तः। तदा समरादित्यजीवो मूलभवाचतुर्थे भवे तत्रैव पुरे वैश्रमणश्रेष्ठिनः पुत्रत्वेनोत्पनो धनदेवनामा खप्रियमित्रैः सह तत्रागतः । मुनीन्द्रदर्शनात् संजातस्तस्य प्रमोदः, वन्दिताः सर्वेऽपि
AGAAAAAAACT

Page Navigation
1 ... 117 118 119 120 121 122 123 124