Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 117
________________ |रकात्, तस्माद् अलं मे स्त्रीपरिणयनेन' । तातेनोक्तम्- 'दारपरिग्रहस्यापि कश्चिद् दोषोऽस्ति किम् ?' । तेन | भणितम् -'तात ! दारपरिग्रहो नाम निरौषधो व्याधिः, आयतनं मोहस्य, अपचयो घृतेः, सभा व्याक्षेपस्य, प्रतिपक्षो शान्तेः, भवनं मदस्य, वैरी 'शुद्धध्यानानाम्, प्रभवो दुःखसमुदयस्य निधनं सुखानाम्, | आवासो महापापस्य । एनं प्रतिपद्य पञ्जरगताः सिंहा इव समर्था अपि प्राणिनः परलोकसाधने मनुष्य - | भवलाभेऽपि सीदन्ति । अन्यच्च, तात ! न युक्तं रत्नखचितेन स्वर्णस्थालेन पुरीषशोधनम् । पुरीषशोधनतु| ल्याश्च विषयाः, अचिन्त्यचिन्तामणिसदृशं च जिनवचनबोधसङ्गतं मनुष्यत्वम् । कर्मभूमिश्चैषा, परमपदसाधनं च चरेणानुष्ठानम्, तस्माद् अलम् अन्यथाविकल्पेन, अनुजानीहि मे सकलदुःखविनाशिनीं प्रव्रज्या - म्' इति । ततो जल्पितं बाप्पाईलोचनेन तातेन - 'पुत्र ! एवमेव एतत्, किन्तु परमार्थमपि जल्पन् स्नेहकातरं मे हृदयं पीडयसि त्वम्' । कुमारेण भणितम् -'तात ! अलम् अपरमार्थप्रेक्षिणा स्नेहेन, यत एष स्नेह | एव अत्र प्रधानं संसारकारणम्' । तातेनोक्तम्- 'इयं तपखिनी ईशानसेन पुत्री खेदं प्राप्स्यति' । कुमारेणो|क्तम्- 'तात ! स्तोकमिदं कारणम् । अन्यच्च, निवेदयतु तातस्तस्या अपि एतद्वृत्तान्तम्, कदाचित् साऽपि ऍनं श्रुत्वा प्रतिबोधं प्राप्स्यति' । ततस्तातेन 'युक्तमेतद्' इति भणित्वा प्रेषितः शङ्खवर्धनाभिधानः पुरो| हितः । भणितश्च यथा - 'अमुं वृत्तान्तं निवेदय राजपुत्र्याः, ब्रूहि च ताम्-एवंस्थिते किमस्माभिः कर्तव्यम् ?” १ गृहम् । २ व्ययः । ३ विनाशः । ४ पुरीषं विष्ठा । ५ चरणं चारित्रम् |६ अनुज्ञां देहि । ७ वृत्तान्तम् ।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124