Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 115
________________ दिवसः। समागते तस्मिन् कुमारो महाविभूत्या विनयमती परिणेतुं प्रवृत्तो वाद्यमानेषु मङ्गलतूर्येषु, नृत्यत्सु पणाङ्गनागणेषु, पठत्सु मङ्गलपाठकेषु, गायन्तीषु जनन्यादिसधवींषु, धवलगजवरारूढो राजवृन्दैः समेतः प्रासादश्रेणीतलगताभिः पुरसुन्दरीभिर्विलोक्यमानो राजमार्ग प्राप्सः। अस्मिन्नवसरे कुमारस्य दक्षिणलोचनेन स्फुरितम् , समुत्पन्नो हर्षविशेषः। चिन्तितं तेन-'शीघ्रम् अतोऽपि महाप्रमोदेन भवितव्यम्। इति । अत्रान्तरे कल्याणश्रेष्ठिभवनाऽङ्गणे गोचरचर्यया प्रविष्टः साधुर्दृष्टः। तं च दृष्ट्वा तस्य संभ्रमः समुजात्पन्नः। ततः साधुधर्मस्य पूर्वाऽभ्यस्ततया, कर्मपरिणतेर्विचित्रतया, भगवतो मुनेरमोघदर्शनतया च समुत्पन्नं जातिस्मरणम् । गजेन्द्रस्कन्धे निपतन् धृतः पार्थवर्तिना रामभद्राभिधानेन सकलहस्त्यारोहप्रधान-18 हस्तिपकेन । 'हा! किमेतद् इति विद्राणो रामभद्रः, 'मा वादयत' इति वारितानि तुर्याणि । अविषादी अपि दृढं विषण्णचित्तः समागतस्तातः । 'पूगफलादिमदमूञ्छितो भविष्यति' इति विचिन्त्य तेन | चन्दनपानीयेन सेचितः। ततो लब्धा कुमारेण चेतना, उन्मीलितं लोचनयुगलम् , कृत आसनपरिग्रहः, लाविरक्तं संसारसागराञ्चित्तम् । भणितं च तातेन-'पुत्र ! किमेतद्' इति । तेन भणितम्-'तात ! दारुणं संसारविलसितम्। तातेनोक्तम्-'पुत्र ! कोऽत्र संचारचिन्ताया अवसरः । तेनोक्तम्-'तात! महती खलु एषा कथा संक्षेपतः कथयितुं न शक्यते, तस्माद् एकस्मिन् प्रदेशे तात उपविशतु, शब्दापयतु मे १ हस्तिपको निषादी-इस्त्यारोहः ।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124