Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 114
________________ चरित्रम्, भवौ९-१० श्रीयशोध.1 पर पूज्यश्रीहरिभद्रसूरिकृतसमरादित्यचरित्रान्तर्गतप्राकृतमययशोधरचरित्रे तु अष्टममवे एतयोमुक्तिगमनं || नाऽभ्यधायि, किन्तु अन्यदपि भवद्वयं प्रोक्तमस्ति । तत्प्रबन्धोऽपि तदनुसारेणात्र दयते॥४७॥ ॥ अथ नवम-दशमभवौ ॥ SCHRAULIARIAUSIA FANAR | ततोऽभयरुचिसाधुरमयमतीयुक्तः शुद्धसाधुत्वं प्रपाल्य प्रान्ते सिद्धान्तविधिना कालं कृत्वा सहस्रार-1 नाग्नि देवलोके देवत्वेनोत्पन्नः। तत्र देवायुरुपभुज्य देवलोकाश्युत्वा कोशलदेशेऽयोध्यायां नगर्यां विनयधरस्य राज्ञो लक्ष्मीमत्या महाराश्याः कुक्षौ पुत्रत्वेनोत्पन्नोऽभयरुचिजीवः। कालक्रमेण जन्म संप्राप्तः।पितृ-४ भ्यां 'यशोधर' इति नाम विहितम् । अभयमतीजीवदेवोऽपि ततो देवलोकाश्युत्वा पाटलिपुत्रे नगरे ईशानसेनस्य राज्ञो विजयादेव्याः कुक्षौ पुत्रीत्वेनोत्पन्नः। कालक्रमेण जाता, तस्या विनयमतीति नाम च प्रतिठापितम् । ततो द्वावपि तौ देहोपचयेन कलाकलापेन च वृद्धि प्राप्तौ । तदा ईशानसेनेन सा विनय-8॥४७॥ मती खपुत्री यशोधरस्य वयंवरा प्रेषिता। श्रुत्वा चेदं यशोधरो हृदयेन परितुष्टः, प्राप्ता च सा महता परिकरण । राज्ञा बहुमानपूर्वकम् आवासिता नगराद् बहिः, कृतं च वर्धापनकं, निर्धारितो विवाह

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124