Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
॥ ४८ ॥
।
मातृलोकं प्रधाननागरिकादिकं च, येन कथयामि तातस्य संसारचिन्तावसरकारणम्' इति' । ततो राजमा|र्गासन्नसभायामुपविष्टो राजा, शब्दापितो मातृलोकः प्रधाननागरिकादिलोकश्च स्थित उचितस्थानेषु । भणितं च तातेन - 'पुत्र ! किमेतद् ?" इति । कुमारेणोक्तम्- 'तात ! निर्गुण एष संसारः, मोहाभिभूताः | खलु प्राणिनो न जानन्ति एतस्य स्वरूपम्, न च आलोचयन्ति, प्रवर्तन्तेऽहितकर्मणि, न प्रेक्षन्ते उत्तरकालम् । अत्र खलु सुराऽसुरसाधारणास्तावद् एते जन्म-जरा-मरण-रोग-शोक-प्रियवियोगादिविकाराः | दारुणो विपाकः स्तोकस्यापि प्रमादचेष्टितस्य, येन पिष्टमय कुर्कुटवधोऽपि प्रेक्षध्वं कथं परिणत' इति । ततो भणितः सुरेन्द्रदत्तनृपभवादिको जातिस्मरणपर्यन्तो निजवृत्तान्तः । तं च श्रुत्वा 'अहो ! दारुणवि| पाकता कार्याचरणस्य' इति जल्पन् संवेगमुपगतो राजा माताऽशेषजनपदश्च । ततः कुमारेण भणितम्'तात ! ईदृशम् अकार्याचरणपरिणामं प्रेक्ष्य विरक्तं मे भवचारकाचित्तम्, विजृम्भितो जिनवचनप्रतिबोधः । तस्माद् अनुजानातु तातो येन तातप्रभावेणैव मनुजत्वं सफलं कुर्वे' । ततोऽनादिभवाऽभ्यस्तमो| हदोषेण उत्तरकालमविचार्य प्रोक्तं राज्ञा- 'हे पुत्र ! कस्तव प्रार्थनाभङ्गं करोति ?, सफलमेव तव मनुज - त्वम् तस्मात् परिणय तावद् एताम् ईशानसेननृपपुत्रीम् । ततः सम्यक्प्रजापरिपालनेन महान्तं पुण्यस्कन्धं कुर्याः' । तदा कुमारेणोक्तम्- 'तात ! विज्ञसं मया भवत्पुरः प्रागेव यदुत 'विरक्तं मे चित्तं भवचा१ विकसितः - प्रकाशितः । २ पुण्यराशिम् ।
चरित्रम्. भवी९-१०
॥ ४८ ॥

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124