Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 120
________________ श्रीयशोध. ॥ ५० ॥ | साधवः, तैरपि दत्तस्तस्मै धर्मलाभः । ततः सलावण्यं सतारुण्यं संपूर्णसाधुगुणोपेतं तं यशोधरमुनीन्द्रं वीक्ष्य तेनोक्तम्- 'खामिन् । किं ते निर्वेदकारणं येन अस्यां भोगयोग्याऽवस्थायां योगं प्रपन्नोऽसि' । ततः सर्व स्वप्राग्भवचरितं निवेदितं तदग्रे मुनिना । तन्निशम्य धनदेवः संसाराद् विरक्तीभूतः प्रव्रज्यां जग्राह । ततः सर्वेऽपि साधवोऽन्यत्र विजहुः । यशोधरमुनीन्द्रा भूतले विहरन्तो बहून् भव्यजन्तून् प्रतिबोधयन्तंः क्रमेण केवलज्ञानं प्राप्य मुक्तिं प्रापुः । अन्येऽपि केचित् साधवः साध्व्यश्च मुक्तिं जग्मुः केचित् | सुरलोकमिति । इति श्रीयशोधरचरित्रे नृप - जनन्योर्नवमभवयुतो दशमो भवः ॥ भो भो भव्या ! इत्थम् अल्पमात्रहिंसायास्तीत्रतर विपाकसूचकं दशभवसंबन्धं श्रीयशोधरनरेन्द्रप्रबन्धं श्रुत्वा, सावधानेन मनसाऽर्थमवधायें, प्रमाद - कषायादि परित्यज्य, स्वल्पामपि हिंसां मा कुरुत । श्रीजिनेन्द्रैरहिंसामुख्य एव धर्मः प्रोक्तोऽस्ति । असत्य - चौर्य-मैथुन - परिग्रहादीनामपि हिंसायामन्तर्भावाद् असत्यादिनिवृत्तिरपि तत्त्वतोऽहिंसैव ज्ञातव्या । यदुक्तम् ईकं चिय इत्थ वयं निद्दिद्धं जिणवरेहि सद्देहिं । पाणाइवायविरमणमसेसा तस्स रक्खट्ठा ॥ १ ॥ तस्मात् सर्वथा हिंसां परित्यज्य श्रीमदर्हत्-सिद्धा ऽऽचार्योपाध्याय - सर्वसाधु-दर्शन-ज्ञान-चारित्र-तपःखरू१ एकमेवात्र व्रतं निर्दिष्टं जिनवरैः सर्वैः । प्राणातिपातविरमणमशेषास्तस्य रक्षार्थाः ॥ १ ॥ चरित्रम्. भवौ९-१० 11 40 11

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124