Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 113
________________ नवरभिग्रहैर्जगतां पुण्यकारणं पारणं कुर्वन्ति स्म । ततस्ते वैराग्यमहाधना मुनीन्द्राः कियता कालेन खकीयायुःपर्यन्तं ज्ञात्वा चतुर्विधाहारं प्रत्याख्याय पादपोपगमनं निधाय मनसि इत्थं ध्यायन्ति स्म-"श्रीमन्त ऋषभाद्याः सर्वे जिनेन्द्राः, पुण्डरीकादयो गणधराः, केवलज्ञानिभिःप्रोक्तो धर्मश्च अस्माकं भवे भवे शरणमस्तु । श्रीजिनोक्तान् षड्विधजीवान् वयं क्षमयामः, तेऽपि क्षाम्यन्तु । अस्माकं मनो-वाक्-कायजन्यं पापं मिथ्याऽस्तु । अत्र संसारेऽस्माकं कोऽपि नास्ति, वयमपि कस्यापि न स्मः। श्रीजिनचरणशरणस्थानाम् अस्माकं कदापि दैन्यं नास्ति । यानि पुनरष्टादशपापस्थानानि कृतानि तानि भवे भवे संचितानि सर्वाण्यपि त्यजामः। तथा यद् बहुभिर्यत्नैः पालितं अनेकाहारपोषितं दोषाणामेव गृहं तच्छरीरमपि व्युत्स|जामः" । इत्थं ते सर्वेऽपि गृहीताऽनशना, एक मासमुपोषिता, महाध्यानेन परमेष्ठिनमस्कारं ध्यायन्त, | उत्तरोत्तरं गुणस्थानारोहणं कुर्वन्तः, शुक्लध्यानाग्निना घातिकर्माणि भस्मसात् कृत्वा, सकललोकाऽलोकप्रकाशकं केवलज्ञानं प्राप्य, अघातिकर्माणि क्षपयित्वा, शाश्वतानन्दपूर्ण जन्म-जरा-मरणविमुक्तम् अव्याबाधं मोक्षं जग्मुः। ॥ इति श्रीयशोधरचरित्रे नृप-जनन्योरष्टमो भवः ॥ श्रीमाणिक्यसूरिनिर्मितपद्यबन्धयशोधरचरित्रानुसारेण सर्वोऽप्ययं प्रवन्धोऽस्माभिरप्यत्रोलेखे प्रदर्शितः। 58525ERAKAR

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124