Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| अवतीर्य खेच्छया पिण्डं गृहीत्वा निश्चितं चन्द्रलोकं प्रयान्तु' । तदा इत्थं तद्वचः श्रुत्वा मया चित्ते चिन्तितम् — ' हा ! हन्त मन्दभाग्योऽहम् !, सर्वथा हताशोऽस्मि, यतोऽयं मत्पुत्रो गुणधरो राजा महम् एवं ददाति, अहं तु दौर्गत्यदोषात् प्रायो दुःखी एवाऽस्मि । हा पुत्र ! भवता दत्तं किञ्चिदपि न प्राप्यते; एते सर्वे द्विजाः खेच्छया मां पितृलोकं प्रापयन्तु, अहं तु कैश्चित् कर्मभिर्मेषीभूय समागतोऽस्मि ! । एतैः सर्व्वाऽन्न| भक्षकै बृहत्कुक्षिभिर्द्विजैर्भोजितैर्नाहं स्वर्गमार्ग प्राप्नोमि । इत्यादि मयि चिन्तयति सति स भूपतिस्त्रिः प्रद| क्षिणीकृत्य काञ्चनदक्षिणां दत्त्वा प्रणम्य च तान् द्विजान् विससर्ज । तदा इदं राज्यं मे, अयं राजवग्ग मे, एते हस्त्यश्वा मे, एतानि गृहाणि मे, इत्थं पुनः पुनः 'मे मे' शब्दम् अहं ब्रवीमि परं मां कोऽपि न | बेति । अथ भोजनाऽवसरे सर्वा अन्तःपुरदेव्यस्तत्र समागताः । तदा मद्वियोगात् कृशीभूतशरीरा अप्रा| सपरपुरुषसङ्गमास्ताः सर्वा अपि पूर्वभवस्त्रियो विलक्षेण सता विलोक्य हे राजन् । मया प्राघूर्णकेनेव विमृ|ष्टम् -' या अस्य राज्ञो माता मम प्राणाऽपहारिणी, सा नयनावली एवं साम्प्रतं कथमत्र न दृश्यते १ । तस्यास्तु एवंविधे कार्ये पुत्रस्य च महोत्सवे महानुद्यमोऽस्ति, केवलं धर्म्मकर्मणि प्रमादोऽस्ति । परम् अद्य इहा| दर्शनाद् एवं ज्ञायते सा आर्ता वा मृता वा भवतु । द्वयोरेकं तु नियमाद् विद्यते, अन्यथा कथमधुना प्रियसुतस्य कार्ये नागच्छेत् ? । अथवा ज्ञातम् अनागमनकारणम्, यतः कुनकं प्राणवल्लभं प्रयत्लेन पृच्छ|न्त्याखखा अब काठविलम्बो भवति, क्षणात् साऽप्यत्र निश्चितम् आयास्यति' । इत्थं मयि चिन्तयति

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124