Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 86
________________ श्रीयशोध. अज-मेषो मेष-महिषौ कुर्कुट-कुर्कुव्यौ च भूतौ तथा सर्व खवृत्तान्तं श्रुत्वा जातिस्मरणं प्राप्य आवां कूज- चरित्रम्. शन्तो मुनेः पादयोः पतितो। ततश्च आरटन्तौ चकिती भ्रान्तौ भीती कम्पमानौ लुठन्तौ प्राग्जन्म स्मरन्तौ भव: ७ ॥३३॥ 18|च आवां तथाभूतौ दृष्ट्वा अवसरज्ञः शान्तसन्तापः कालदण्ड उवाच-'हे राजन् सुरेन्द्रदत्त ! त्वं कथं कुर्कुटो जातोऽसि ?, तथा हे मातश्चन्द्रमति ! त्वं किम् इमां दशां प्राप्ताऽसि ? । पुनर्हे मालवभूपाल ! इन्द्रतुल्यपराक्रमस्त्वं की, इदं पुनः कुर्कुटजन्म क? । अहो भवितव्यतायाः प्रबलता! हे खामिन् ! तव ईदृग्दशां दृष्ट्वा मम मनोऽतीव दूयते, परं हे महाराज ! मा विषीद्, अलं तव रोदनेन, यतः सारवर्जितोऽयं संसारः। टू सत्यम् , ईदृश एवास्ति । तव पुत्र-मित्र-कलत्राणि सम्बन्धि-बान्धवाश्च सर्वमपि एतत् तथैव आस्ते, त्वं पुनरेकोऽन्यथा दृश्यसे!। अथ यत् त्वम् इच्छसि तद् मामेव आदिश, अयं तव प्रसादपात्रं कालदण्डः किं करोतु । हे देव ! शिरसः संज्ञया त्वं मम वाणी प्रतीच्छसि, परं खभाषाभिर्यद् ब्रवीषि तदर्थम् अहं न जानामि" । तत आचार्यस्तम् उवाच-'हे आयुष्मन् ! त्वं किं न जानासि ?, एतौ तव खामिनी कुर्कुटी अनशनं याचते । अन्तर्मुहूर्तमात्रेण अनयोमृत्युभविष्यति, तस्मात् परलोकं गच्छतोरेनयोधर्मशम्बलं देयम्'। इत्युक्त्वा स मुनीन्द्रोऽनशनं दत्त्वा चतुःशरणपूर्वकं तौ सद्यः पर्यन्ताराधनं कारयामास । कालदण्ड-5॥३३॥ स्तु 'सज्जयोरनयोः कुतस्त्यो मृत्युभविष्यति ?' इति चिन्तयाऽन्तर्विस्मितः सन् तस्थौ । ततश्च आवां मुनेवाचा पापस्थाननिवृचिषु 'ओम्' इति कथनार्थ कूजन्तौ प्रासादमध्यस्थेन राज्ञा श्रुतौ । तदा एकान्त ANSACARAN EMASCESSAGAAAAACAL

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124