Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 110
________________ श्रीयशोध. ॥४५॥ सप्रकाशा विरेजुः, जीवलोको निर्मयः सन् सुतरा हर्षोत्फुल्लः समजनि, वाताः सुशीताः सुरभयो मन्दं । चरित्रम्, मन्दं वान्ति स्म, केवलं कोऽपि प्राणरक्षणमयः कोलाहलोऽभूत् । । भव: | अत्रान्तरेऽकस्मात् पृथिव्याम् आकाशतो विविधकल्पवृक्षपुष्पवृष्टिर्बभूव । ततो 'जय जय' शब्दमुच्चरन्त्यो देवद्धि दर्शयन्त्यः सिद्धदेवाङ्गना आकाशे विविधविमानैः सह प्रादुर्बभूवुः। ततस्तासां निरुपमरूप-वेषसौभाग्यभृतां कुवलयदृशां व्यन्तरीदेवतानां मध्येऽत्यद्भुतरूप-वेषधरा विविधभूषणभूषिताङ्गी चण्डमारिनाम देवी प्रत्यक्षाऽभूत्। ततस्तयाऽभयरुचिदर्शनेन लज्जमानया प्रथमं नृपःप्रोच्यते स्म-"अहो मारिदत्त ! इयत्कालं त्वया किमिदम् अकार्य कृतं १, यद् मोक्षसुखादिवाञ्छया निशाचरदेवदासीनाम् आराधनार्थ | स्थलचरादिबहुजीवानां हिंसा विहिता। न हि मया प्रत्यक्षीभूय त्वं जीववधार्थमादिष्टः। मोक्षं दातुं पुन|वयं क समर्थाः । अस्मत्सकाशातु सुशीला गृहिणां स्त्रियो वरम्। इदं पुन—वैश्चितं कुदेश्यं धिगस्तु।अद्य |किलाऽहं कर्णविवरामृतधारातुल्या अतिरमणीया अभयरुचेर्वाचः श्रुत्वा सम्यग् मोक्षमार्ग विज्ञाय कमपि |परमानन्दं प्राप्ताऽस्मि । क अस्मादृशां मदनविकारोत्पादकः प्रबोधः', क पुनरयं मदनादिसर्वविकारनिवारकोऽस्य मुनेः प्रबोधः। विष-पीयूषयोरिव एतयोर्महदन्तरं विद्यते । अथाहं हे भगवन् योगीश्वर ॥४५॥ अभयरुचे ! दूरात् प्रणमामि । तुभ्यं नमोऽस्तु, यस्मात् तव प्रसादतः पशुवधार्थ मिलितः सर्वोऽप्ययं १ कुवलयानीव दृशो यासां-कमलनेत्राणाम् । २ दुष्टोपदेश्यम् । ३ पीयूषम् अमृतम् । AAAAAAAAAAAAA

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124