Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
यद्वा तिष्ठतु आलिङ्गनम्, अहं तव महर्षेश्वरणौ शिरसि धारयामि, त्वं चैनं मां सम्बन्धिनं संसाराब्धौ पतन्तमवलम्बय । तथा हे अभयमति पुण्यवति बालतपखिनि ! त्वामहं दूरात् प्रणमामि । अथ हे भगवन् करुणासमुद्र ! मयि मातुलेऽपि प्रसादं कृत्वा तावत् प्रसीद, यावदहं खकीयं सकलपापकलङ्कपङ्कं प्रक्षाल्य भवदङ्गसमीपयोग्यो भवामि । इदानीं भो भोः सेवकाः । पापिनः कौलाः क १, सत्वरं कौलशिरो|भिः पृथ्वीं समास्तृणुत । यद्वाऽभयरुचौ स्थिते सति न हि एतद् युक्तं, परं सकलोऽपि कौलो देशाद् नि| ष्काश्यताम् । तथा योगिन्यादिदुराचारिस्त्रीणां चारकशोधनाज्ञा भवतु, अमीषण्डाश्च नापितकार्य भजन्तु । तथा मदिराया भाण्डानि लकुटैः खण्डयत । मम देशे पुनर्जीवघातो मा भूत् । अमी मृगाः पुनर्वनभूमिषु स्वेच्छया चरन्तु, पक्षिणश्च निजेच्छयाऽऽकाशे संचरन्तु । जलचरजीवास्तु ये ये यतः स्थानाद् आनीता अभूवन् तांस्तान् तेषु तेषु जलस्थानेषु निराबाधं प्रवेशयत' ।
ततो नृपाज्ञया मत्रिप्रमुखैः सर्वेऽपि श्वापदा बन्धनेभ्यो मुच्यन्ते स्म, पक्षिणश्च पञ्जरेभ्यो निष्काश्यन्ते स्म मत्स्यादयो जलचरास्तु बहुजलपूरणादियलेन जलेषु प्रक्षिप्यन्ते स्म । तदा ते सर्वेऽपि जीवा बन्धनोन्मुक्ता निर्भयाश्च सन्तः खस्खस्थानं गन्तुं समुत्सुकीभूय प्रतिदिशं व्रजन्ति स्म । पक्षिणश्च मधुरध्वनिना कूजन्तो गगने पक्षान् विस्तार्य खेच्छया खेलन्तो ययुः । पुनस्तदा पृथ्वी सुखेन उच्छ्वासं प्राप्तवती, दिशः
१ कारागारशोधनादेशः ।

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124