SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ यद्वा तिष्ठतु आलिङ्गनम्, अहं तव महर्षेश्वरणौ शिरसि धारयामि, त्वं चैनं मां सम्बन्धिनं संसाराब्धौ पतन्तमवलम्बय । तथा हे अभयमति पुण्यवति बालतपखिनि ! त्वामहं दूरात् प्रणमामि । अथ हे भगवन् करुणासमुद्र ! मयि मातुलेऽपि प्रसादं कृत्वा तावत् प्रसीद, यावदहं खकीयं सकलपापकलङ्कपङ्कं प्रक्षाल्य भवदङ्गसमीपयोग्यो भवामि । इदानीं भो भोः सेवकाः । पापिनः कौलाः क १, सत्वरं कौलशिरो|भिः पृथ्वीं समास्तृणुत । यद्वाऽभयरुचौ स्थिते सति न हि एतद् युक्तं, परं सकलोऽपि कौलो देशाद् नि| ष्काश्यताम् । तथा योगिन्यादिदुराचारिस्त्रीणां चारकशोधनाज्ञा भवतु, अमीषण्डाश्च नापितकार्य भजन्तु । तथा मदिराया भाण्डानि लकुटैः खण्डयत । मम देशे पुनर्जीवघातो मा भूत् । अमी मृगाः पुनर्वनभूमिषु स्वेच्छया चरन्तु, पक्षिणश्च निजेच्छयाऽऽकाशे संचरन्तु । जलचरजीवास्तु ये ये यतः स्थानाद् आनीता अभूवन् तांस्तान् तेषु तेषु जलस्थानेषु निराबाधं प्रवेशयत' । ततो नृपाज्ञया मत्रिप्रमुखैः सर्वेऽपि श्वापदा बन्धनेभ्यो मुच्यन्ते स्म, पक्षिणश्च पञ्जरेभ्यो निष्काश्यन्ते स्म मत्स्यादयो जलचरास्तु बहुजलपूरणादियलेन जलेषु प्रक्षिप्यन्ते स्म । तदा ते सर्वेऽपि जीवा बन्धनोन्मुक्ता निर्भयाश्च सन्तः खस्खस्थानं गन्तुं समुत्सुकीभूय प्रतिदिशं व्रजन्ति स्म । पक्षिणश्च मधुरध्वनिना कूजन्तो गगने पक्षान् विस्तार्य खेच्छया खेलन्तो ययुः । पुनस्तदा पृथ्वी सुखेन उच्छ्वासं प्राप्तवती, दिशः १ कारागारशोधनादेशः ।
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy