________________
श्रीयशोध.
चरित्रम् भव:
॥४४॥
४
प्रविशन्तो एमिः सेवकैर्बलाद् निगृह्य तव समीपमानीती। हे राजन् ! यत्त्वया धर्मखरूपं भवपारम्पर्य च पृष्टं तद् मया सर्वमपि अष्टभवपर्यन्तं तवाग्रे कथितम् , संसारखरूपं सर्वमपि ईदृशं जानीहि"।
अथैवं तस्मिन् अभयरुचिमुनीन्द्रे मालवनरेन्द्रकुलप्रशस्तिम् उक्तवति सति स मारिदत्तः खकृताऽकार्यस्मरणेन अकस्माद् मूछों प्राप्य वर्णमयपीठाद् भूमौ पपात । तदा सर्वाऽपि समा चिन्तामग्नत्वेन चित्रलिखितेव निश्चला बभूव । ततो 'हे राजन् ! मा व्याकुलो भव, मा व्याकुलो.भव' इति पुनः पुनस्तस्य मुनेवचः शृण्वन् सम्बन्धविह्वलः स भूपतिनिःश्वासान् मुश्चन् श्रमवारि वर्षन् अपूर्वकलङ्कतप्सत्वेन दुःखाकुलश्च सन् 'हा हा!' इति कथनपूर्वकं साङ्गभङ्गमुत्थाय धीरोऽपि भीरुरिव भीतदशां प्राप्तः सन् नयनाभ्याम् अश्रूणि विमुञ्चन् इत्युवाच-'अहह ! ममेदं महत्कष्टं संप्राप्तम् । यदिवा देवस्य दुस्सहतरो विचारोऽस्ति, अन्यथा येषां मनोरथशतैरत्रागमनं चिन्तितं तेषाम् अनेन विधिना समागमः कथमभूत् ? । मया पुनः साम्प्रतम् अनयोरविनयं कुर्वता कीदृग अकार्य कृतम् । अधमैः कोलमलिनीकृतबुद्धिं माम् अधन्यं धिगस्तु । अथाऽहम् एतत्सभामध्ये पुनः खमस्तकम् ऊ/कर्तुं कथं समर्थो भविष्यामि ? । योऽसौ गुणधरो यतिः स मे भगिनीपतिः, यतः सा जयावली देवी ममैव भगिन्यस्ति । तथाऽयं श्रीमान् अभयरुचिर्मम भांगिनेयः, इयमभयमती च मम भागिनेयी वर्तते । भो अभयरुचे! एहि एहि,माम् आलिङ्गख,
१ भगिनीपुत्रः।
ॐॐॐॐॐ
॥४४॥