Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| स्थितो राजा जयावलीं राज्ञीं प्रति प्रीत्या उवाच - 'हे देवि ! यदि तव चित्ते कौतुकमस्ति तर्हि मे शब्द - वेधित्वं पश्य' । एवम् उक्त्वा भूपतिः सद्यः सर्पशरीरवद् भयानकं क्रूरंघोषं वज्रदण्डकर्कशं धनुर्गृहीत्वा | निजनामाङ्कितं सर्वलोहमयम् एकं वाणं संदधे ! । अत्रान्तरे दिव्यदृष्ट्या गुरुर्जगाद - 'हे कालदण्ड ! एषोऽनयोर्मृत्युर्वेगतः समायाति त्वम् एतौ आकुलतरौ कुर्कुटौ परिरक्ष' । अथ स कोट्टपालो यावत् प्रतिदिशं पश्यति तावद् भूपतिना कुण्डलीकृतशरीराद् धनुषः स्वयं मुक्तो हुङ्कारखरभीषणस्तीक्ष्णमुखो बाणोऽज्ञातः सन् समागत्य आवयोः शरीरं भित्त्वा प्राणान् अपहृत्य दूरतरं च गत्वा पृथ्वीं प्रविवेश । हे राजन् ! अहं स्वप्ने जनन्या प्रेरितो यद् धवलगृहतः षड्भूमीनींचैर्यातः, जनन्यपि च मदनुवञ्जन्ती तत्रैव प्राप्ता तद् | एतन्मया सकलमपि अत्यन्तरौद्रं दुःखप्नफलम् इत्थं साक्षादनुभूतम् । यतस्तादृशे सुकृतविकले विवेकहीने तिर्यग्भवे आवयोः षड् भवा बभूवुः । इति श्रीयशोधरचरित्रे नृप - जनन्योः सप्तमो भवः ।
अथ अष्टमो भवः ॥ ८ ॥
अथाऽनयोरष्टमभवखरूपं लिख्यते-अथ कालदण्डस्तम् अद्भुत भयानक रौद्र-वीर- बीभत्स - शान्त करुणा- | रसानुकूलं प्रबन्धं दृष्ट्वा सद्य उद्धान्त चञ्चल- निमीलित-भिन्न खिन्न प्रच्छन्नसाश्रुलोचनः समजनि । ततः सोऽ-

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124