Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्रम्. भवः ८
श्रीयशोध. अथैकदा बहुवर्षातिकमे स मालवेन्द्रो गुणधरो नृपश्चण्डखभावतया भूयोऽपि घृतदुर्मतिः सन् मृग
यार्थ प्रचचाल । तत्र चैवं चिन्तयामास-'अद्याहं त्यक्तराजकार्यभारो मुक्तसर्वपरिग्रहप्रसङ्गो हर्षितः सन् ३६॥
शीघ्रं सर्व श्वापदं संहरामि । पुनरहोरात्रं वनान्तराले विचरन् शीता-ऽऽतप-वातवेदनाम् अगणयन् शयालुस्तरमूलं भजन् विभोजनो धनुर्बाणधरोऽप्रमादी च सन् चिरकालम् अनेकपोषितानां विषयाणां परिवर्तनं करिष्ये' । अथैवं चिन्तयन् स भूपो मृगान्वेषी कण्ठार्पितधनुष्कश्च सन् वेगवताऽश्वेन तस्या मालवगङ्गायाः सिप्रानद्यास्तटे समन्ताद् बभ्राम । पिशाचा भैरवमिव श्वानयुक्ता व्याधी वागुंरिकाश्च तम् अनुजग्मुः । ततो वल्गता गगनं गच्छता त्वरताऽत्यर्थ भ्रमता तुरङ्गेण स महावनम् अवगाहमानस्तत्र रसालवृक्षमूलस्थं मोहाऽन्धकारदिवाकरम् एकं मुनिपुङ्गवं ददर्श; परं यवासकाय वर्षा इव, घूकाय सूर्य इव तस्मै राज्ञे स मुनिरत्यर्थ न रुरुचे । तदा 'मृगयां गच्छतो मम अग्रत एवायं मुण्डो मलधारी पापी ,
अशकुनो भवति' इत्येवं विचिन्त्य स पापी राजा भ्रसंज्ञया तस्मिन् भगवति मुनीश्वरे बहून् कौलानां दाकुर्कुरान् अमोचयत् । 'वात्स्यावातैवृक्ष इव एभिः श्वभिरयं पापी अधुना पात्यते' इति बुद्ध्या तुष्टः सन्
खयं नरेश्वरस्तमपश्यत् । अथ धनुषः शरा इव सहुङ्कारं विनिर्मुक्तास्ते दुरात्मानः श्वानो मुनीन्द्रसंमुखं धावन्ति स्म, परं सद्यस्तत्समीपं प्राप्य आज्ञामिव तस्य राजश्छायामपि न लबन्ते स्म । तथा प्रचण्डसूर्य
१ पुनरपि । २ वनपशुम् । ३ लुब्धकाः। ४ जालिकाः, जालेन मृगादिबन्धकाः । ५ रसाल आम्रः ।
SEARLECRACREAK
॥३६॥

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124