Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
HCECA
SONॐॐॐ
अथैतद् गुरुवचनं श्रुत्वा स भूपतिः कम्पमानः खेदपूरपूरितदेहश्च सन् परशुच्छिन्न उन्नतस्तरुरिव झटिति महीतले पतति स्म । तथा खानुभवसिद्धमिदं गुरुवचनं व्याकुलन मनसा चिन्तयतस्तस्य हृदये शोकशङ्कन माति स्म । तदा विसंस्थुलमौलिबन्धनं लुलितभ्रान्तचपलविलोचनं मूर्छागतम् अचेतनमिव तं दृष्ट्वा पार्श्ववर्तिमिः सेवकैर्वक्षःस्थलताडनोत्तरं पूत्क्रियते स्म । तथाहि
उदकमुदकं वायुर्वायुर्वतासनमासनं, भजत भजत च्छत्रं छत्रं हहाऽऽतप आतपः। है। इति सरमसं भीतभ्राम्यज्जनाननसम्भव-स्तदनु तुमुलो लोलः कोलाहलः सुमहानभूत् ॥१॥
पुनस्तदा अहहत्त-कालदण्डावपि 'किमिदम्' इति भ्रान्तचित्तौ बभूवतुः । मुनीन्द्रस्यापि च नेत्रे नवजलबिन्दुस्यन्दिनी अभूताम् । ततः शीतैर्जलैर्जलार्द्रवस्त्राहृतपवनैश्च शीतलोपचारैः खस्थीकृतः स मालवभूपालः पुनबैतन्यं प्रत्यागतवान् । परं खकृताऽकृत्यस्मरणेन हृदि दुस्सहं दुःखमुद्वहन् शरीरं खण्डशश्छित्त्वा अग्मिसात् कर्तुमैच्छत् । पुनस्तदा स भूपो न मुनिं पश्यति स्म, नाऽर्हहत्तं, नापि चाऽन्यान् लोकान् पश्यति स्म किन्तु केवलं रोषरुक्षदृष्टया पृथ्वीमेवाऽपश्यत् । तथा खकृतपापं दुष्परिहारं विचिन्त्य मरणोन्मुखः सन् पातकस्य प्रतीकारमपि मुनि न पप्रच्छ । ततो ज्ञानी सुदत्ताचार्यस्तमुवाच-'हहा वत्स!
१ अनेरधीनम् ।
R AAS

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124