Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोष. ॥ ३८ ॥
कृपालुजीवपालकच विद्यते, अतोऽसौ प्रसाद्यमानः किं प्रसीदति नवेति त्वं मा शङ्किष्ठाः, यतोऽयं मुनीन्द्रः परमब्रह्मलीनेन मनसा तन्मयतां गतः सन् मनागपि ते पराभवं नाद्रियते । उक्तञ्च -
“दतेषु दानशौण्डानामिभ्यानामर्जितेषु च । योगिनां चोपसर्गेषु कियत्सु कियती स्मृतिः १ " ॥ १ ॥
तस्माद् भो भूपाल ! किमेतेन तव अनल्पविकल्पशङ्कुना ?, नलभूपस्य पूर्वभवे मुनौ प्रतिकूलक्रियैव । भवादृशाम् अमी भावाः कदाचिद् दैवयोगतो भवन्ति । अथापि हे पृथ्वीपाल ! सत्वरमेहि एहि, कालक्षेपं परित्यज, भक्तियोग्यं वेषं भज, वक्रीकृतग्रीवम् अश्वं मुञ्च । एषोऽहं तवाग्रेसरो भवामि, त्वं भूमौ | विलुठन् भगवच्चरणसमीपमुपेत्य प्रणिपत्य च खजन्म सफलं कुरु, भगवच्चरणरज श्रूर्णेन खशरीरं द्रव्यतो धूसरं भावतश्च सुपवित्रं विधेहि । केवलं मनो वाक् कायशुद्ध्या भगवत्पादान् एव भजख यत ईदृशमुनी - न्द्राणां भक्तिः परमार्थतः खार्थसाधनमेवास्ति । उक्तञ्च
“या भक्तिः सर्वसाधूनां वस्तुतः स्वार्थ एव सः । वैलक्षेपो हि दीपानां गृहस्यैव प्रकाशकः” ॥ १ ॥
• पुनर्भो भूपाल ! त्वं धन्योऽसि यत् त्वयाऽप्रयासेन अयं मुनीन्द्रो दृष्टः यस्माद् महानिधीनामिव साधूनां प्राप्तिर्यथा तथा न भवति । अपिच, भवतो भवे भवे दुःखैकहेतुर्मृगयारम्भः क १ पुनः सर्वदा परमानन्दकारणम् इदं मुनिदर्शनं क १। त्वया किल अवकरनिकरं खनता मरकतमणिः प्राप्तः । तथा हे
चरित्रम् भवः ८
॥ ३८ ॥

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124