Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध. ॥४०॥
चरित्रम् भव:
संजाघटीति तथा पुनः पुनी प्रणामप्रयासेन प्रसन्नीकुर्वस्त्वं प्रायो मम सक्रोधतामिव प्रकटयसि.। तस्माद् अलं तव वारं वारं प्रणामादिभिः। त्वया तु मदीयदर्शनेनैव शान्तिभावं प्राप्तवता मम धर्माधिकारिभवनाद् मह्यमुपकृतम् । यद्वा तव पूज्येषु नम्रीभावो युक्त एव, यस्मात् त्वं सुरेन्द्रदत्तस्य पुत्रोऽसि । तथा हे गुणधर ! 'मां नृपं बहु मन्यख' इति त्वया किमुक्तम् ?, न हि त्वं नरेषु सामान्योऽसि, किन्तु विशेषतो गीतार्थोऽसि; अतोऽस्माकं माननीयोऽसि । अहं सर्वजीवेषु समभावोऽपि त्वयि विशेषतः प्रसन्नोऽस्मि । हे पुरुषश्रेष्ठ ! तव पृष्ठे हस्तोऽर्पितः, त्वमुत्तिष्ठ, मां मनोऽभिमतान् अर्थान् पृच्छ, खमनसः संशयान् छिन्द्धि, मा मनागपि विषीद । श्रीजिनेश्वरस्त्वां भवदुःखात् पातु"। एवं मुनीन्द्रेण सप्रसन्नम् उक्ते सति भूपतिस्तुष्टः सन् प्रत्युवाच-“हे भगवन् ! भवताऽहं पापीति विज्ञाय न अनादृतः, मानीति न तिरस्कृतः, विराधक इति न द्विष्टः, मूर्ख इत्युक्त्वा न निन्दितः, निर्लज इति न निर्भसितोऽस्मि, अतः सर्वथाऽनुगृहीतोऽस्मि । तव तत्त्वदृष्टेमहात्मनो मयि सुमहान् पक्षपातो विद्यते। तथा सुरेन्द्रदत्तो मे तातः परलोकं गतोऽपि अद्य जीवति, यस्माद् भवादशोऽपि खामी एवं वदति । पुनर्भो मुनीन्द्र ! अध सर्वपापहारिण्यः कल्याणकारिण्यः प्रशस्यतरास्तवाशिषो मम सर्वतः सन्तापं हरन्ति । किञ्च, हे खामिन् । यद् भवता मम संशयोच्छेदनाऽऽदेशो दत्तस्तद् युक्तम् , परं किञ्चिज्ज्ञानवतः पुंसः किञ्चिद् अज्ञातं संशय उच्यते, मादृशस्तु सर्वमोहमयः पुमान् के सन्देहं दूरीकरोतु १ । अधुना पुनर्भवद्दर्शनाद् मम सद्यो बोधः समुत्पन्नो
॥४०॥

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124