Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 94
________________ S श्रीयशोध. भव ISAK SASHIKOSHISHIG | मारब्धा । पुनर्येषां स्पर्शमात्रेण सूतकं भवति तान् कुर्कुरान् मनुष्ये कोऽपि मनुष्यो मुञ्चति ?, त्वया तु / चरित्रम्, साक्षादेव तद् अकार्य कृतम् । यद्यपि अमीभिः कुकुरैः खभावतो मुनेरुपसर्गो न विहितस्तथापि त्वया तु अभिप्रायप्रतिकूलत्वाद् मुनिहत एव । यत्कार्य प्राकृतमनुष्येष्वपि कर्तुम् अयुक्तं तद् भवताऽस्मिन् भगवति कृतम् !, अतो रे जीव ! तव का गतिर्भविष्यति ? । अन्यच्च, योऽयं मुनिः कुपितः सन् खकी-|| यतपस्तेजसा त्रैलोक्यमपि निदेहेत् तस्याग्रतोऽहं वराकः कस्यां गणनायामस्मि, परम् अहो मयि मूर्ख|शिरोमणी महापराधकारिण्यपि अस्य भगवतः कृपालोः क्षमा!, यद मयि दुष्टे कोपलेशोऽपि अनेन न स्पृष्टः । एतादृशैरेव महापुरुषैः किल इयं लोकव्यवस्था निर्वहति । यदुक्तम्| "यद् दहन्ति न मार्तण्डा न क्षुभ्यन्ति यदब्धयः । यच्च शक्तास्तितिक्षन्ते तेनेदं वर्तते जगत्" ॥१॥ पुनर्निश्चितमसौ भगवान् ज्ञानेन खल्पपरिवारं छत्र-चामराद्याडम्बरवर्जितमपि मां नराधिपं जानाति, तथा मम दुर्विनीतस्य इमं दुर्विनयमपि वेत्ति, ततोऽद्य मम राजशब्दो निरर्थकः संजातः। अथाऽहम् अग्रतो भूत्वा खकीयं मुखं दर्शयितुं न शक्नोमि, नापि च मुनि प्रसन्नम् अकृत्वा इतः स्थानाद् गन्तुं समर्थो भवामि । हा कष्टम् ! अहं शोच्यचरित्रोऽस्मि, पुनरप्रेतिकार्यपापोऽस्मि । हा! हतोऽहम्, किं १सूर्याः । २ समर्थाः । ३ क्षमन्ते । ४ निन्द्यचरित्रः। ५ अपरिहार्यपापः। .

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124