Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ ज्वाला इव, किम्पाककन्दली इव महादुःखप्रदा विद्यते । तथा इयमेव साक्षाद् वीभत्स -भयानकरसयुक्तो रौद्रो रसो वर्तते । पुनः काचिद् महामायापि इयं हिंसैव निगद्यते । तथा कंसाद्या बलवन्तोऽपि कति | पुरुषा हिंसामलिन चित्ताः सन्त आपदां पदं न जातास्तद् विचारय । पुनः स्वयं हिंसा तु दूरे तिष्ठतु, हिंसाया लेशोऽपि दुःखदायको भवति । यदुक्तम् "आस्तां दूरे स्वयं हिंसा हिंसालेशोऽपि दुःखदः । न केवलं विषं हन्ति तद्गन्धोऽपि हि दुःखदः " ॥ १ ॥ " तथा कलावती - मित्रानन्दप्रमुखैर्जीवैः अल्पया हिंसया एव दुस्तरो दुःखसागरः संप्राप्तः, दृढप्रहारि| चिलातीपुत्रादिभिस्तु महापापिभिरपि सद्गुरुसंयोगात् सद्यो हिंसां परित्यज्य परमं पदं संप्राप्तम् । तस्माद् भोः कालदण्ड ! त्वमपि कदाग्रहं मुक्त्वा सुमहान्तं मोहमहिषं हत्वा निजचित्तवृत्तिम् अन्तर्देवीं सदा | प्रसन्नीकुरु । तव किम् अपरैर्निरपराधपशुप्रहारैः १, पुनरपराभिः सेविताभिर्देवताभिरनर्थहेतुभिः १ । यदि त्वम् एनं महोपद्रवमयं जीवघातं नो विमुञ्चसि ततः परिणामकाले अस्य कुर्कुटयुगलस्य इव तवापि गति - भविष्यति” । तदा कालदण्डो विस्मितः सन् मुनिं प्रति पप्रच्छ - 'हे खामिन् ! इमौ द्वौ कौ प्राग् अभूताम् १, किं च आभ्याम् अकारि १, कोऽयं वृत्तान्तः ?' । तदा मुनीश्वरस्तत् पिष्टमयकुर्कुटहननादिकं सर्वमपि आमूलचूलम् आवयोश्चरितं तदग्रे जगाद । ततो यथा किल मम राज्यम् आसीत्, यथा मातृ-सुतौ आस्वाम्, यथा च कालकूटप्रयोगाद् मम मृत्युर्जातः, यथा पुनरावां मयूर वानौ नकुल- भुजङ्गौ मत्स्य-ग्राही

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124