Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 84
________________ श्रीयशोध. ॥ ३२ ॥ अकार्षम्, प्रत्युत भवद्दर्शनाद् हर्षितोऽस्मि' । तदा मुनिर्जगाद - 'भो भद्र ! मांसभक्षकस्य गृहेऽहम् आहारं न गृह्णामि, तस्माद् मया त्वद्गृहे भिक्षा न गृहीता । पुनर्मम त्वद्गृहस्खरूपदर्शनाद् महान् संवेगोऽपि समुत्पन्नः । तदा महेश्वरेण पृष्टम् -' खामिन् ! किं कारणम् ?' । ततो मुनिरपि तदग्रे महिष-शुनी - पुत्रादीनां यथावस्थितकथां कथयामास । तदा 'कोऽपि प्रत्ययः ?' इति पुनर्महेश्वरेणोक्ते मुनिरुवाच- 'अहो ! इमां शुनीं प्रति प्राग् भूमौ निखातं किमपि पृच्छ' । अथ मुनिवचनात् तेन पृष्टा सा शुनी अपि जातिस्मरणप्रभावतः स्वनिखातनिधानस्थानं चरणेन खनति स्म । ततस्तत्र निधानं दृष्ट्वा उत्पन्नप्रत्ययः स महेश्वरदत्तः सद्यः संसारोद्विद्मः सन् पात्रेषु सम्पदं दत्त्वा प्रव्रज्यां जग्राह । इति महेश्वरदत्ताख्यानकम् । “भोः कालदण्ड ! एष वृत्तान्तो येषां न कर्णगोचरीभूतस्ते मूढाः पुत्र- कलत्रादिमोहमग्ना अनेकशोऽ| कृत्यं कुर्वन्ति, दुष्टदेवादिकं च आराधयन्ति । तत्त्वज्ञानिनः पुनः कदापि एवं न कुर्वन्ति, किन्तु जीवदयादिनिमित्तं राज्य पुत्र- कलत्रादिकम् अपि त्यजन्ति । तथाहि उग्रसेनस्य तनयां देवो जीवदयापरः । अरिष्टनेमिस्तत्याज प्रियां राजीमतीमपि ॥ १ ॥ गर्भिणीघातसंजातपातकध्वान्तशान्तये । तत्याज राजराजेन्द्रो हरिश्चन्द्रो महीमिति ॥ २ ॥ “तस्माद् भो महाभाग ! 'अहं क्षत्रियोऽस्मि' इति विचिन्त्य हिंसां मुञ्च, यतो निरपराधानां वधं धीवरा एव कुर्वन्ति, न तु क्षत्रियाः । इयं हिंसा पुनः प्राणिनां कालरात्रिवि, वैतरणी नदी इव, कालाऽनलस्य चरित्रम्. भवः ७ ॥ ३२ ॥

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124