Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्वामेव च नमस्यामि । पूर्वभवे मया निश्चितं किमपि उत्तमं सुकृतं कृतमभूद, अन्यथा भवान् त्रिकालदर्शी मुनीश्वरो मम दृष्टिगोचरः कथमभविष्यत् ? । पुनहें खामिन् ! अकिञ्चनस्तत्त्वज्ञो भवादृशो यद् अपरिचितं धर्मपराङ्मुखं मादृशं जडं सन्मार्ग प्रापयति तदत्र सत्यं करुणैव कारणम् । अथ हे भगवन् ! तुभ्यं तपखिने नमोऽस्तु । त्वं च करुणां विधाय मां निजकिङ्करं दुस्तराद् भवसमुद्रात् सद्यो निस्तारय" । ततो मुनीश्वरेणोक्तम्-'भो देवानुप्रिय ! शुद्धम् आत्मधर्ममङ्गीकुरु, येन तप शीघ्रमेव इष्टसिद्धिः संपद्यते। ततः स कालदण्डो नृपदाण्डपाशिकस्तत्कालं गुरुवचनात् सम्यक्त्वमूलानि द्वादशत्रतानि गृहीत्वा तहिनादेव श्रमणोपासकः संजातः। ___ अथ हे मारिदत्त ! स गुणधरो राजा आवां प्राग्भवपितरौ हत्वा खेच्छया तां जयावली देवीं वुभ | तस्यां साभिलाषायां खवीर्यं च स्थापयामास । ततः समाप्तसंभोगोऽपि स नृपस्तस्सा लालित्यदर्शनात् पुनः संजाताभिलाषः सन् उत्तिष्ठन्तीं तां सुन्दरीम् आलिङ्गय शय्यां नीत्वा रतशेषं परिपूर्णीकृत्य गाढसंभोगशिथिलाम् अत्यन्तोद्धान्तलोचनां वीर्यसंपूर्णी च सतीं तां मुमुचे । तत्र वीर्यद्वये च पुं-स्त्रीलिङ्गधरौ द्वावपि । आवां जीवौ पुत्रवधूकुक्षौ क्षणात् संक्रान्तौ । अथ सा जयावली देवी दिने दिने कलेलादिक्रमेण वर्धमानम् अपत्यद्वयलक्षणं गर्भ सुखेन पालयामास । तदा मालवेश्वरः सीमन्तोन्नयनादीनि मानल्यानि कार्याणि तया १ शुक्रशोणितसन्निपात-गर्भवेष्टनादिक्रमेण ।
PAGGANAPASALAMAKHIANATA

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124