Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द गाज़िला च पूर्णे काले पुत्र सुषुवे । अथ महेश्वरदत्तो जारजम् अपि आत्मजनितं मन्वानस्तं पुत्रं विविध
लीलयाऽलालपत् । प्रसूतपुत्रायास्तस्या गाङ्गिलायाः स्पष्टं दृष्टमपि असतीदोपं पुत्रप्रीत्या व्यस्मरत् ।। तथा प्रमुदितः सन् पुत्रखरूपं प्राप्तस्य तस्य जारजीवस्य धात्रीकर्माणि कुर्वाणो न लज्जते स्म । पुनर्व
मानं कूचेकेशाऽऽकर्षकं तं वालं कृपणो द्रव्यमिव सदा हृदयाग्रे स्थितं धारयामास । + एकदा पितुर्मरणदिने प्राप्ते सति स महेश्वरो मांसेच्छया तं पितृजीवं महिषं क्रीणाति स्म । ततः पितृ-8 वासरपवाथ से खयमेव तं महिपं मारयित्वा आनन्दितः सन् तन्मांसं ग्रासीकुर्वाण उत्सङ्गस्थाय बाला
याऽपि ददौ । तस्मिन् अवसरे तन्माता शुनी अपि मांसलुब्धा तत्राजगाम । तदा सोपि तदर्थ समांसानि दि अस्थिखण्डानि चिक्षेप । ततो वातप्रेरितधूमशिखाग्रवत् पुच्छं नर्तयन्ती सा खकीयपतिजीवस्य अस्थीनि
भक्षयामास । अथ पितृमांसं खादतो महेश्वरस्य गृहे मासक्षपणपारणार्थ कुतश्चिद् एको महामुनिः समाजगाम । स पे ज्ञानाऽतिशयसंपन्नत्वाद् महेश्वरदत्तस्य तादृशं सर्व वृत्तान्तं ज्ञात्वा चिन्तयामास-'अहो! |धिग् अस्याऽशानं यत् पितुर्मासमश्नाति !, उत्सङ्गे च वैरिणं दधाति । इयं पार्श्वस्था शुनी पुनः प्रमुदिता सती पत्युः समांसानि अस्थीनि खादति । अहो! ईदृशोऽयं संसारो विद्यते । एवं सम्यग् ज्ञात्वा स मुनिस्तद्हात् सद्यो निर्गत्य यावद् वहिरागतस्तावद् महेश्वरोऽपि धावित्वा वन्दित्वा च तम् उवाच-'हे भगवन् ! भिक्षाम् अगृहीत्वैव मद्गृहात् कथं निवृत्तोऽसि । न हि अहम् अभक्तोऽस्मि, नापि भवदवज्ञाम्

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124