________________
ज्वाला इव, किम्पाककन्दली इव महादुःखप्रदा विद्यते । तथा इयमेव साक्षाद् वीभत्स -भयानकरसयुक्तो रौद्रो रसो वर्तते । पुनः काचिद् महामायापि इयं हिंसैव निगद्यते । तथा कंसाद्या बलवन्तोऽपि कति | पुरुषा हिंसामलिन चित्ताः सन्त आपदां पदं न जातास्तद् विचारय । पुनः स्वयं हिंसा तु दूरे तिष्ठतु, हिंसाया लेशोऽपि दुःखदायको भवति । यदुक्तम्
"आस्तां दूरे स्वयं हिंसा हिंसालेशोऽपि दुःखदः । न केवलं विषं हन्ति तद्गन्धोऽपि हि दुःखदः " ॥ १ ॥
" तथा कलावती - मित्रानन्दप्रमुखैर्जीवैः अल्पया हिंसया एव दुस्तरो दुःखसागरः संप्राप्तः, दृढप्रहारि| चिलातीपुत्रादिभिस्तु महापापिभिरपि सद्गुरुसंयोगात् सद्यो हिंसां परित्यज्य परमं पदं संप्राप्तम् । तस्माद् भोः कालदण्ड ! त्वमपि कदाग्रहं मुक्त्वा सुमहान्तं मोहमहिषं हत्वा निजचित्तवृत्तिम् अन्तर्देवीं सदा | प्रसन्नीकुरु । तव किम् अपरैर्निरपराधपशुप्रहारैः १, पुनरपराभिः सेविताभिर्देवताभिरनर्थहेतुभिः १ । यदि त्वम् एनं महोपद्रवमयं जीवघातं नो विमुञ्चसि ततः परिणामकाले अस्य कुर्कुटयुगलस्य इव तवापि गति - भविष्यति” । तदा कालदण्डो विस्मितः सन् मुनिं प्रति पप्रच्छ - 'हे खामिन् ! इमौ द्वौ कौ प्राग् अभूताम् १, किं च आभ्याम् अकारि १, कोऽयं वृत्तान्तः ?' । तदा मुनीश्वरस्तत् पिष्टमयकुर्कुटहननादिकं सर्वमपि आमूलचूलम् आवयोश्चरितं तदग्रे जगाद । ततो यथा किल मम राज्यम् आसीत्, यथा मातृ-सुतौ आस्वाम्, यथा च कालकूटप्रयोगाद् मम मृत्युर्जातः, यथा पुनरावां मयूर वानौ नकुल- भुजङ्गौ मत्स्य-ग्राही