Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
AAAAA
कारं सूर्य-चन्द्र-विद्युत्-प्रदीप-वहि-चन्द्रमण्यादिना केनापि प्रकाशकवस्तुना पराभवितुं न शक्यते, ज्ञानमेव एकं तत्पराभवने क्षमं विद्यते । अहो कालदण्ड ! त्वया एकं खधर्म पृष्टेन मया तव पुरः कथ्यमानम् इत्थं सर्वधर्मार्थकीर्तनं निशम्यताम्-पुनश्च, यः पुमान् तात्त्विका सकरुणः प्रियंवदो निःस्पृहः शुचिरकिञ्चनश्च भवेत् तमेव लोके धार्मिकोत्तमं वदन्ति । एष एव भवतां सर्वेषां चिरन्तनो धर्मोऽस्ति"। अथैवं श्रुत्वा कालदण्डो विस्मितः सन् ईषद् विहस्य मुनिमुवाच-"हे भगवन् ! भवन्तं तत्त्वतो गोमुखव्यानं जानामि । अहो ! भवतो वाण्यो निर्भरगम्भीरा विद्यन्ते, यतो भवता ममं धर्ममार्ग वक्तुमिच्छता |ऐकमत्यमिवानीतम्, खजनत्वमिव च प्रादुष्कृतम् । तथाऽहं निरुत्तरीकृतः, खधर्मः प्रकाशितः, परधर्मश्च दूरीकृतः, विरोधश्चापि न दर्शितः। तस्माद् भो मुनिपुङ्गव । इत्थं सर्वाऽभिमतं हितकारकं खसम्बद्धं च वचो वक्तुं वागीश्वरोऽपि सन् त्वत्तोऽपरः को वेत्ति । पुनर्हे भगवन् ! बहुलान्धकारमुद्रितपङ्कजराजिवि|काशने सूर्यस्य इव तव मुग्धबुद्धिलोकप्रबोधने साधुरुधमो वर्तते । हे महापुरुष! मयापि निश्चितमेव तद्
यद् भवसोक्तं तत् तथैव, इदम् अन्यथा न भवत्येव । यतश्चिरन्तनो धर्मोऽपि अधर्मोऽपि च एक एवास्ति, ६ न तु बहुभेदः । उक्तं च शास्त्रेऽपि
"अहिंसामचलो वीरः सत्यं राजा युधिष्ठिरः । अस्तेयं मुनिवाल्मीकिर्बनचर्य च नारदः॥१॥ त्याग विदेहभूपालः पालयामासिवानिति । ते स्वर्गमपवर्ग च लेमिरे पुरुषोत्तमाः॥२॥
SHAॐॐॐ
तथैव, इदम् अन्योधने साधुरुधमो व मगवन् । बहुलान्धकारमारक खसम्बदं च ।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124