Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 76
________________ चरित्रम्, भवः श्रीयशोध. धर्मख दुरितस्यापि पर्यन्ते महदन्तरम् । अन्यदेव फलं यसाद माकन्द-पिचुमन्दयोः" ॥२॥ पुनर्मिथ्यादृष्टयो हि आगमाभिप्रायम् अजानानाः सततं पुण्यार्थ पायमेव कुर्वन्ति। तथाहि-कौला मन्द॥२८॥ बुद्धयो धर्मार्थम् अभक्ष्यभक्षणादिकुकर्म कुर्वन्ति, ब्राह्मणाश्च विविधजीवहिंसारूपं यज्ञं कुर्वन्ति, भिल्लास्तु दवानलं प्रददते, अन्ये पुनः केचिद् मृत्तिकादिनान-गोदान-सान्ध्य-पञ्चाग्निसाधन-दुमसेवा-वृषभविवाहा18|| दिकं तत्त्वतोऽधर्ममपि धर्मबुद्ध्या कुर्वन्ति । पुनर्ये मद्य-मांस-मातङ्गीसङ्गमैकाकारकारिणः कौलास्तेषांत सम्लेच्छानामिव नामाऽपि सताम् अग्राह्यम् अस्ति । भोः कालदण्ड ! एवं सर्वेऽपि दुर्मतयः खं खं शास्त्रम् आश्रित्य सर्व कुकर्मैव आचरन्ति, परम् अन्तरङ्गदृष्टिरहिततया बहिरङ्गाऽवलोकिनः सन्तः शास्त्राभिप्रायं न जानन्ति । यतः परमार्थस्य कोऽपि सन्मार्गोऽन्य एवाऽस्ति, स च मूढात्मनाम् अगम्य एव । तथाहि "कालो भक्ष्यः कलाः पेया अगम्यं परमं पदम् । एकाकारं च सिद्धत्वं लोलाः कौलाः कथं विदुः॥१॥ सर्वेऽपीत्थं च पश्चानि-यज्ञ-स्नान-गवादयः। मृईलाक्षणिकाः शन्दा वाचकत्वेन कल्पिताः" ॥२॥ | भो देवानुप्रिय ! इत्थं तत्त्वदृष्टया चिन्त्यमानं सांसारिकाऽन्धकारं क', पुनर्ज्ञानप्रदीपः क्व? यस्माद् विष-पीयूषयोरिव तयोर्महदन्तरं विद्यते । प्रायः सर्वमपि एतज्जगद् ज्ञाननावम् अलब्ध्वा गुरुद्वीपं च परित्यज्य अविद्याजालजम्बाले मनं सत् सर्वदा विषीदति । यस्मात् सर्वलोके विस्तृतं मिथ्यात्वम् अतुलान्ध १ आम्र-निम्बयोरित्यर्थः। ORAKHPSSAGARॐॐॐॐ ॥२८॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124