Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
॥ ३० ॥
पुनर्मोः कालदण्ड ! यदि त्वं परम्परागता हिंसा न विमुञ्चसि तर्हि, पैतृकान् रोगान् कथं न स्वीकरोतू षि१ । तथा पुनर्विचिन्तय, यदि नाम परम्पराऽऽयातं दारिद्यं त्यज्यते तर्हि हिंसां त्यजतस्ते सा व कण्ठेSलम्बते ? । अन्यच्च आत्महितं धर्म कुर्वन् कोऽपि केनापि न वार्यते, यथा गाधिपुत्रो मुनिर्भवन् किं क्षत्रियैर्निषिद्धः १ । पुनहिंसकस्य कुले उत्पन्नः किं हिंसक एव स्याद् ?, अहिंसको न स्यात् १, यथा अन्धेन जातः पुत्रः किम् अन्ध एव भवेत् १ इति विचिन्तय । अपरमपि च शृणु-केन सर्वसंसारवैरिणा तब इद| मुपदिष्टं यद् निरपराधजीवघातेन देवीपूजनं भवेत् १ यतो जीवघातेन न च देव्यो न च देहिनस्तुष्यन्ति । | अहिंसया किल सर्वेऽपि देवादयः प्रमुदिता भवेयुः । तथा तव कुलदेव्यो यस्य महेश्वरस्य पत्यः सन्ति तस्य रुद्रस्य प्रासादे हि जीवघातवार्ताऽपि नास्ति, तत्पत्तीनां देवीनां तु मद्य-मांसेन तर्पणम् इति पति - | धर्मविरोधिन्यो देव्यः ! । साधु साधु पतित्रता दृश्यन्ते ! । तथा 'यत्र जीवस्तत्र शिवः, सर्व विष्णुमयं जगद् इत्यादिवाक्यैः शैर्वैर्वैष्णवैरपि च अहिंसैव विस्तारिताऽस्ति । अतोऽहिंसैव सर्वमान्या विद्यते । अन्यदेव्यो हि सरखती-लक्ष्मीप्रभृतयः सौम्या वरप्रदा लोके प्रसिद्धाः सन्ति, ततो यासां जीववधः प्रियस्ताः पुनरिमा दुष्टा डाकिनी शाकिनी-राक्षसीप्रायाः का देव्यः १ । पुनर्भोः कालदण्ड ! इदम् अन्यदपि शृणु - किम् अनेन तव देवीपूजनोत्सवेन १, यतो भाग्यैर्विना देव्योऽपि न सिध्यन्ति । उक्तञ्च
“ फलन्ति भागधेयानि निमित्तं देवतादयः । निष्पुण्याः कति न त्यक्ता देवीभिः साधकाः किल " १ ॥ १ ॥
चरित्रम्.
भवः ७
॥ ३० ॥

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124