Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 75
________________ 954XAA AAKAASARANG माथ्यादृष्टिमिव ज्ञात्वा मुनिस्तत्त्ववाण्या उवाच-"भो राजपुत्र ! त्वं यद मां 'खधर्म ब्रूत' इति वदसि तत् किं लोके धर्मा अनेके सन्तीति जानासि? । हे नृपसभानिषेवक! तवापि ईशो मतिभ्रमो विद्यते येन एवं पृच्छसि।परमार्थतः किल एक एव धर्मोऽस्ति, भिन्नो धर्मः कोऽपि न विद्यते । यत् पुनः अयम् अस्य, अयं परस्य, अयं तव, अयं च मम धर्मोऽस्ति इत्येवं विभज्य लोकैरेकोऽपि धर्मः शतखण्डितः क्रियते तद् | अज्ञानविज़म्भितम् अवबुध्यख । यतः सर्वेऽपि आगमाः प्रायस्तत्त्वमेव अनुवर्तन्ते, यथा सरलैः कुटिलैर्वा मागैर्गङ्गादिजलानां समुद्र एव गतिरस्ति । पुनर्वेष-भाषादिभि दे सत्यपि सर्वेषां लिगिनां प्रायस्तत्त्वम् एकमेव,यथा श्याम-गौर-ताम्राणामपि धेनूनां पयः खादु धवलमेव च सम्भवति । तस्माद् हेराजवंश्य! परमार्थतो विद्या-वेष-भाषा-जन्म-कुल-विक्रमादिभिर्न किमपि सिध्यति, किन्तु शुभाऽशुभैः कृत्यैरेव जीवो धार्मिकः पातकी च संपद्यते । तत्र यः सम्यक्त्वम् अङ्गीकृत्य अहिंसा-सत्या-ऽस्तेय-सुशीला-ऽपरिग्रहादिव्रतधर्म सम्यक् परिपालयति तमेव धार्मिकं जानीहि । पुनर्यथा चक्षुष्मान् पुमानेव सदसद्मार्गदर्शने निपुणो भवति तथा सम्यग्दृष्टिरेव तत्त्वतो धर्माऽधर्मों जानाति, न तु अपरः। मिथ्यादृष्टयस्तु अधर्ममपि धर्म श्रद्दधानाः संसारकान्तारेऽनन्तशः परिभ्रमन्ति, यतः सुकृतबुद्धा कृतमपि दुष्कृतं दुःखदायकमेव संपद्यते । उक्तश्च__ "दुष्कतं सुकृतप्रीत्या कृतमप्यसुखं दिशेत् । पुष्पदामधिया स्पृष्टो न किं दशति पन्नगः १ ॥१॥ CHURASAASAASAASAASAASA

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124