Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तारुण्यं प्रापितो, पारितोषिकद्रव्यलोभेन च कालदण्डनाम्नः कोट्टपालस्य प्राभृतीकृतौ । सोऽपि राज्ञो / हृदयाभिज्ञः कोहपालो ममैव पूर्वपुत्रस्य तस्य गुणधरनृपस्य क्वचिदवसरे दर्शयामास । तदा स भूपोऽपि एकाग्रदृष्टयाऽऽवां विलोकमान इत्थं स्तौति स्म-'अहो! अस्माभिः एतादृशं कर्पूरपुञ्ज-चन्द्रकिरणतुल्यश्वेतवर्ण पक्षियुगलं वापि न दृष्टम् । पुनरेतद् अस्माकं नेत्रकुमुदकलिके सुधाधाराभिर्निषिञ्चति, ततो यत्र यत्र |वयं यामस्तत्र तत्र इदं पक्षियुगं त्वया सहानेतव्यम्' इति कालदण्डं समादिशति स्म । तदनन्तरं भो राजन् ! स कोहपालो नृपाज्ञया अन्तःपुर-गृहा-ऽऽराम-मृगयादिषु क्रीडार्थ सर्वदा राज्ञा सह आवांगृह्वाति स्म । अथैकदा समुत्सुकपान्थजनकामिनीघनमनोरथसाधनतत्परः कोकिलावचनमाधुर्यशिक्षागुरुः शृङ्गाररसमयो वसन्तसमयः समाययौ । तदा साऽन्तःपुरपरिवारो राजा वनराजीनां रम्याः कुसुमसम्पदो द्रष्टुं नगराद् निर्ययो । तेषु च विचित्रपुष्पगन्धिषु वनेषु स राजा वाराङ्गनाभिः सार्ध खेच्छया विजहार ।। तदानीं ताल-तमाल-हिन्ताल-शाल-मालूरैः कदम्ब-निम्ब-जम्बू-निम्बू-जम्बीरः करीर-करवीर-वानीरैः पुन्नाग-नाग-नारङ्ग-नागकेसरैः प्रियालु-पीलु-पनस-प्लक्ष-पाटला-केतकी-कुन्द-वासन्ती-शतपत्र-पङ्कज-कङ्केल्लि-मलिका-सहकारादिभिश्च पुष्प-फल-मञ्जरीसमृद्धैर्विविधवृक्षैर्विराजितास्ता वनराजयस्तस्य राज्ञश्चित्तम् अत्यन्तं रञ्जयामासुः। ततः स कौतुकप्रियो भूपतिस्तत्र सुगन्धिपुष्पाऽवचयकरण-पुष्पमालाग्रथन-विलोलदोलाखेलनादिविविध क्रीडां कुर्वन् खेच्छया चिरं विहस श्रान्तः सन् सानन्दं नन्दिदुमवेदिकायाम् उपवि

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124