Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ST
R UST-%C4%A-
समकार्यकारिणोस्तुल्यवेदनाविपाकवतोर्दहन-खण्डन-ताडन-तजन-मर्जनप्रभृतिभिः प्रकारैर्वहु दुःखं सहमानयोरावयोः प्राग्भवमातृ-सुतयोः समकालमेव मरणम् अजनिष्ट । इदमावयोः पञ्चमं भवान्तरं जानीहि । | इत्थं भो राजन् ! अदृष्टादौ अदृष्टान्ते चतुर्गतिचतुष्पथे चास्मिन् संसारपुरे भ्रमन्तोऽमी कर्मवशगा जन्तवो द्रव्य-क्षेत्र-काल-भावव्यवस्थया न कदापि विश्राम्यन्ति, किन्तु रत्नत्रयम् अप्राप्य निरन्तरं सीदन्तः पराधीनाश्च सन्तश्चतुरशीतिलक्षयोनिषु पुनः पुनर्जन्म-मरणादिक्लेशम् अनुभवन्ति । ये पुनर्लघुकर्माणो जीवाः सिद्धं बुद्धं शान्तं शिवम् अनादिम् अनन्तम् अजरामरम् अनेकम् एकम् अव्यक्तम् अजम् ईश्वर नित्यं सर्वशं परमात्मानं कथञ्चिद् विज्ञाय शुद्धमनसा सेवन्ते तेषाम् उत्तमानाम् इह संसारे कदापि जन्मादिक्लेशलेशोऽपि न जायते । हे राजेन्द्र ! इत्थं सहजसुन्दरे प्रस्तावे सत्यपि यद् अहं महादुःखव्याप्सायां तिर्यग्योनौ पुनः पुनान्तस्तदहं हस्तगृहीतदीपकः सन् कूपे निपतितः, तथा कल्पवृक्षतले उपविष्टः सन् क्षुधया बहुपीडितः, मलयाऽचलचूलायां च स्थितः सन् दुर्गन्धदुर्भगोऽभूवम् । पुनर्मया पापिना क्षुद्रजन्तुना भवे भवे खकीयं प्राग्जन्म स्मृतं, परं धर्मध्यानं तु विस्मृतमेव, कदापि मनसि न आनीतम् । तथा कषायविषवल्लीतुल्यास्तास्ताश्चिन्ताः कृताः, परं रागद्वेषाऽभिव्याप्तेन सता वैराग्यं कदापि न प्राप्तम् । यत् किल निर्मलं चारित्रं मनुष्यभुवे प्राप्यते तत् तु विषेण हन्यमानस्य मेन प्रादुर्भूतम् । तदनन्तरं पशुत्वेऽपि यदि धर्मध्यानम् उदयमागमिष्यत् तर्हि तिर्यक्षु तास्ता विडम्बनाः कथम् अभविष्यन् ।। परं
AAAAAA%
ब-
ब--ब-ब

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124