Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 62
________________ * श्रीयशोध. ॥२१॥ A*SHUSHUSHAAAASAS सति तत्रागताभ्यां द्वाभ्यां दासीभ्यां परस्परं वार्तालापः कृतः। तथाहि-हे सखि! अद्य नृपाज्ञया किं चरित्रम्, घातितम् ?'। द्वितीयोवाच-'अद्य इह महिषा विनाशिताः, देव्या बलिश्च विहितः' । 'एवं तर्हि राजम- भवोप|न्दिरे कोऽयम् अपरस्तीव्रदुर्गन्धो वर्तते १, सद्योमृतानां जन्तूनां त्वेवं दुर्गन्धो न प्रसरति' । तदा द्वितीययोक्तम्-'हे प्रेममञ्जुषे ! महिषाणाम् अन्यस्य वा कस्याऽप्ययं गन्धो नास्ति, किन्तु एष नयनावल्या देव्या दुर्गन्धवायुर्विद्यते, यतस्तस्या रोहितमत्स्यपुच्छोदरादिमांसस्य सततम् अत्याहारकरणेन सद्योऽजीर्णभवनात् समस्तेऽपि शरीरे पुष्टं दुष्टं कुष्टं समुत्पन्नम् , तस्य पूतिप्रवाहमयो दुर्गन्धसिन्धुः इदं मनोज्ञं नृपगृहम् अवगाहते' । एतच्छ्रुत्वा इतरयोक्तम्-'हे प्रियसखि ! प्रवलाहारभक्षणेनाऽजीर्णतः कुष्टरोगोत्पत्तिर्बभूव इत्येवं मा वद, यतस्तस्याः पापिन्यास्तु कठोरतरपाषाणभक्षणादपि कोऽपि विकारो नोत्पद्यते, किन्तु तया दुराचारिण्या तादृशोत्तमनरेन्द्रस्य विनाऽपराधं विषप्रयोगो विहितस्तत्पापस्य प्रत्यक्षम् इमं परिपाकं जानीहि। यतोऽत्युग्रपुण्य-पापयोरकस्माद् अत्रैव भवे शुभा-ऽशुभं फलं प्राप्यते । पुनरपि, हे सखि! बलवति खाऽनुरक्ते बहुलोकेश्वरे सरलखभावे खखामिनि नृपे इयं दुष्टा यद् अदृष्टं कुकर्म चकार तद् या काचित् तिरथी ||२|| भवेत् सापि नाऽऽचरति । यदुक्तम् "एणं हरिण्यपि हि पाति वकं बलाका, कोकं विना न हि पिबत्युदकं रथाली । १ हरिणम् । २ चक्रवाकम् । ३ चक्रवाकी।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124