Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्रम्, भवौ५-६
बीवशोष.
कदाचित प्रदीप्यते एव । अथ तस्मिन्नवसरे तस्यां सिप्रायां नद्यां सपयितुमानीतोऽयशालामुखमण्डनः
सर्वलक्षणसंपूर्णः सर्वाऽवयवसुन्दरो राजवल्लभः किशोरोऽश्वस्तेन दृष्टः। दृष्ट्वा च स महिषो जातिखभावाद् ॥२३॥
वैरज्वरव्यासः सन् स्वाहं कम्पयामास । उक्तं च| "सहजं कृत्रिमं चेति द्विधा वैरं प्रचक्षते । सहजं निर्विशेषेण कृत्रिमं कारणान्तरात ॥१॥ ४ हय-कासरयोरज-वानरयोनकुलोरगयोः करि केसरिणोः । वृषदंश-विनायकवाहनयोः सहजं भुवि वैरमिह प्रथितम् ॥२॥
"तद् ब्रामण-श्रमणयोः प्रतिवेश्मपुंसोस्तद्वत् पितृव्यसुतयोरुभयोः सपत्योः।।
नैसर्गिकं जगति वैरमकारणेन, केनापि कस्खचन किञ्चन नाऽपराद्धम् " ॥३॥ कृत्रिमं पुनरतीव दोषतः, कारणान्तरवशन तद्यथा । रामरावण-सुभूमभार्गव-कृष्णकंस-कुरुपाण्डुजन्मनाम् ॥ ४॥
अत एव कोपाटोपात् समुत्पन्नः प्रचुरतरफूत्कारैर्विकरालरूपः स महिष उद्दण्डैः खुरागृभूमण्डलं खण्डयन् इव तमचं हन्तुं सद्योऽभिमुखं धावति स्म । ततस्तीक्ष्णकृपाणाभ्यामिव शृङ्गाभ्याम् अकस्मात् तस्याऽबस्य हृदये प्रहारं चकार । तेन दुःसहप्रहारेण च सद्यस्तस्य हृदयं विभिन्नम् , तस्माच पलाशकुसुमाऽरुणं रुधिरं सवति स्म । ततः स तुरगोऽपि तत्प्रहारेण पीडितोऽपि सन् क्रोधात् तं दन्तैर्व्यथयामास । तदा समुत्पन्नाऽधिककोपः स महिषो बलात् तमश्वम् अधः पातयित्वा सद्यः खुरकु लैर्विदारयामास । ततस्तं १अश्व-महिषयोः । २ हस्ति-सिंहयोः । ३ मार्जार-मूषकयोः ।
KARANASI
॥ २६॥

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124