Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ROBARAGARCANCE
"पुनर्भो राजन् ! कुबोधवीजादुत्पन्नस्य अस्य हिंसातरोरिहभवे परभवे च बहुविधरोगा-ऽल्पजीवित-पडलत्व-कुनत्व-कुष्ठित्वा-ऽन्धत्व-कुरूपत्व-दुर्गतिगमनादीनि कटुकविपाकान्येव फलानि प्रादुर्भवन्ति । तस्माद ये प्राणिनश्चिन्तामणितुल्यं दयाधर्म परित्यज्य काचखण्डतुल्यां हिंसाम् अङ्गीकुर्वन्ति ज्ञातं तेषां पण्डितत्वम् । ते हि सर्वमूर्खशिरोमणय एव ज्ञानिभिरुच्यन्ते। पुनर्येषां प्राणिनां पिशाचा देवबुद्धा पूज्याः सन्ति, गुरवश्च
कौला विद्यन्ते, हिंसा च धर्मोऽस्ति, पञ्चेन्द्रियविषयाश्च मोक्षो वर्तते, तैः सुदुर्लभ प्राप्त मनुष्यजन्म वृथैव है हारितम् । पुनर्भो नृपते ! शृणु-सत्य विघ्ननाशाय पशुमांसैर्देवीपूजां कृत्वा योगिनीचक्रं संतर्य च
कोऽपि नरः पूर्वकालेऽजरामरो भूतो भवेत् तर्हि कथय । पुनर्येऽमी हरि-हरिश्चन्द्र-राम-पाण्डवादयो महान्तो राजानो बभूवुस्ते किं योगिनीचक्रैस्तादृशा विहिताः १, त्वं खचेतसि चिन्तय, मा वृथा भ्रान्तो भव । |तथा अमी दुर्बला जन्तवस्त्वया मत्तेन बद्धाः सन्ति, एतेषां प्राणनाशेन त्वं खप्राणरक्षणमिच्छसि; अहो दुराचारता भवतः !। पुरा तु किल एवंविधाः शिष्टाचारधरा राजानो बभूवुः परप्राणरक्षार्थ खप्राणा अपि समर्पिताः । यदुक्तम्
"शिविः पारापत वातुं सर्प जीमूतवाहनः । आत्मनो देहमपि हि तुलायामध्यरोपयत्" ॥१॥ __अथाऽलं बहुकथनेन । हे राजन् ! यतो ममानुपूर्वमेव एतेषां सर्वेषां जीवानां वधः समागतोऽस्ति, ततोऽमीषां पातकेनैव अहं तपखितांप्राप्तोऽस्मि, एतदेव भवत्प्रश्नस्योत्तरम् । तथा हे निर्दय ! शास्त्रेषु कुबुद्धयो

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124