Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ क्षयं गते सति हृदि प्रबोधोऽपि निवासं चकार । ततोऽसौ भूमिलनेन मस्तकेन तं मुनीश्वरं नत्वा विनीतः सन् करद्वयं संयोज्य उवाच "एवमेव यथार्थत्वं भो मुने ! हर्षितोऽस्म्यहम् । तदहं श्रोतुमिच्छामि धर्म ते जिनभाषितम् ॥१॥ पक्ष-हेतुसमायुक्तैर्दृष्टान्ता-ऽऽगमशोभितैः । प्रदीपकलिकाशुद्धैर्बुद्धोऽहं चास्तव ॥२॥ तदाख्याहि तथाभूतं स्वधर्म मुनिपुङ्गव ! । वपुषेव मया ज्ञातो यथा त्वं नृपनन्दनः॥३॥ कथं कृता त्वया हिंसा कथं भ्रान्तो भवान्तरे । कथं कुमरणं प्राप्तं खण्डितस्त्वं पदे पदे ॥४॥ कथं च जातिस्मरणं कथं भोगाश्च वर्जिताः । कथं विधीयते धर्मः कथं मुक्तिरवाप्यते ॥५॥ सर्वमेतद् विनीतस्य ममाख्याहि तपोधन !। नोपहासाय पृच्छामि अन्यथा शपथा मम" ॥६॥ इत्थं तेन राज्ञा उक्ते सति पुनर्मुनिरूचे-"भो राजन् ! अधुना क्षणमात्रेणैव त्वं कथं विनीतो जातोऽसि । इदं तव क्षणिकं मर्कटवैराग्यं वर्तते । अस्थिरचित्तस्य तव पुरः किं कथ्यते ?, यतोऽज्ञानिनां पुरो द विशिष्टधर्मकथनं निरर्थकमेव, अरण्ये रोदनादिवत् । यदुक्तम् "रुदितमिदमरण्ये खण्डनं तत् तुषाणां, नभसि नियतमेते निष्ठुरा मुष्टिघाताः । मृतकवपुषि पूजा मण्डनं चाऽधवक्त्रे, यदविबुधजनानामग्रतो धर्मवादः"॥१॥ "तस्मादू हे राजन्! धर्मादिप्रश्नाद् निवर्चस्व, किम् अस्माकं वृथा श्रमेण सुखेन भोगान् भुव"।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124