________________
वाप्रमादेन धर्मकर्म आचरणीयम् , जीवहिंसाद्यकृत्यं च परिवर्जनीयम् । तत्र अष्टाहिकाः षट् शाश्वत्यः, अन्यास्तु अशाथत्यः। तथाहि
"दो' सासयजचाओ तत्थेगा होइ चिचमासम्मि । अट्टाहियाउ महिमा बीया खलु अस्सिणे मासे ॥१॥ एया उ दो वि सासयजचाओ करन्ति सबदेवा वि । नंदीसरम्मि विजाहरा नरा निययठाणेसु ॥२॥ वह चउमासियतियगे पज्जोसवणाइ तह य इय छकं । जिणजम्म-दिक्ख केवल-निबाणाइसु असासईया" ॥३॥
अयमर्थः-एका चैत्रमासे शाश्थती अष्टाहिका, द्वितीया आश्विने मासे, एवं द्वे शाश्वत्यौ-सर्वदा भवत इत्यर्थः । तथा चातुर्मासिकत्रिके आषाढादिके तिस्रः, तथैव पर्युषणापर्वणि एका, इत्येताश्चतस्रोऽन्या अष्टाहिकाः शाश्वत्यः, एवं च षड् भवन्तीत्यर्थः। तथा जिनजन्म-दीक्षा-केवल-निर्वाणकल्याणकादिषु या अष्टाहिकास्ता अशाश्वत्यः-यदेव श्रीमतामहतां जन्मादिकल्याणकानि स्युस्तदैव ता भवन्तीत्यर्थः। एतेषु हि अष्टाहिकोत्सवेषु प्रायः सुरेन्द्राः प्रचुरतरसुरनिकरपरिवृता नन्दीश्वरद्वीपं गत्वा अष्टौ दिनानि यावत् १ वे शाश्वतयात्रे तत्रैका भवति चैत्रमासे । अष्टाहिका महिमा द्वितीया खलु आश्विने मासे ॥१॥
एते तु द्वे अपि शाश्वतयात्रे कुर्वन्ति सर्वदेवा अपि । नन्दीश्वरे विद्याधरा नरा निजकस्थानेषु ॥ २ ॥ तथा चातुर्मासिकत्रिके पर्युषणायां तथा च इति षटूम् । जिनजन्म-दीक्षा-केवल-निर्वाणादिषु अशाश्वतिकाः ॥ ३॥
SASARAYOLOSHIRISHIS*