________________
चरित्रम् भवः१
श्रीयशोध.
योऽनिष्टदुष्टेष्वपि शिष्टमावात् , सुदृष्टिरासीत् खगुणैर्विशिष्टः । स वर्द्धमानो मम वर्द्धमानं, प्रयच्छतु खच्छमतुच्छबोधम् ॥५॥ जिनेन्द्रचन्द्राननपद्मसंभवा, स्याद्वादमार्गाश्रयिणी सरखती। मदीयचित्ते निरवद्यवृत्तिनि, करोतु संवासमुदारमात्मनः॥६॥ प्रसादतः श्रीनिधिसद्गुरूणां, विशुद्धवैराग्यकरं मनोज्ञम् ।
समीक्ष्य राजर्षियशोधरस्य, वक्ष्ये चरित्रं सुतरां पवित्रम् ॥७॥ श्रीहरिभद्रमुनीन्द्रर्विहितं प्राकृतमयं तथाऽन्यकृतम्। संस्कृतपद्यमयं तत् समस्ति यद्यपि चरित्रमिह ॥८॥ तदपि तयोर्विषमत्वादर्थावगमो हि तादृशो न भवेत्। तदहं गद्यमयं तत् कुर्वे सर्वाऽवबोधकृते ॥९॥ युग्मम्।।
इहाऽपारसंसारपारावारान्तर्गतेन भव्यात्मना कथमपि सुदुर्लभमनुष्यत्व-सुकुलोत्पत्ति-समग्रेन्द्रियादिसा3ामग्रीसंप्राप्तिपूर्वकं सम्यग्दर्शनं संप्राप्य निश्शेषकर्मक्लेशोच्छित्तये सर्वदा त्रिजगवर्तिसमस्तजन्तुजातनिष्कारणा|ऽसाधारणोपकारपरायणश्रीजिनेन्द्रोपदिष्टविशिष्टनिःसपत्नरत्नोपमसद्धर्मकर्माचरणे प्रयत्नो विधेयः, न पुनः क्षणमपि अनेकाऽनर्थसार्थाऽव्यभिचारिमहाऽरिप्रमादसमुदायं प्रति खस्मिन् निवासः प्रदेयः । यदि पुनः तथाविधकर्मोदयात् सर्वदाप्रमचतया धर्मकरणेऽसामर्थ्यम् । तथापि अष्टाहिकादिपर्ववासरेषु तु अवश्यमे
tartottatoto