________________
ॐ नमोऽहंग्यः
श्रीक्षमाकल्याणकविरचितम् ॥ गद्यबद्ध-श्रीयशोधरचरित्रम् ॥
IBRARAMARCAESARSANSACH
55557555555
सकलसुरनरेन्द्र श्रेणिसंसेव्यमानात् , समजनि किल यस्माद् विश्वलोकव्यवस्था । हिमवत इव रम्या खर्गसिन्धुर्युगादौ, स जयतु जगदार्यो नाभिसूनुर्जिनेशः॥१॥ निखिलजनपदस्थं येन गर्भस्थितेनाऽप्रमितनिजमहिना जन्यजातं निरस्तम् । उपकृतिमतिरक्तस्तीर्थकृद् भक्तिभाजः, स भवतु मम शान्ति?ष्टकर्मोपशान्यै ॥२॥
विजित्य दुर्वारमनङ्गवीरं, जगाम योगीन्द्रशिरोमणित्वम् । यः शैशवादेव कृपापरीतं तमीश्वरं नेमिजिनं नमामि ॥३॥ यदीयसंपर्कवशादनुत्तरं, बभूव तीर्थ किल काशिजाह्नवी। स देवदेवः समतीर्थसत्तमः, सुपार्थपार्थाधिपतिः पुनातु माम् ॥४॥