Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षा.
संपन्नं धर्मतः सौख्यं, निषेव्यं धर्मरक्षया । वृक्षतो हि फलं जातं, भक्ष्यत्ते वृक्षरक्षया ॥ ६०॥ पश्यन्तः पापतो दुःखं, पापं मुञ्चन्ति सजनाः । जानन्तो वह्नितो दुःखं, वह्नौ हि प्रविशन्ति के ॥ ६१॥ सुन्दराः सुभगाः सौम्याः, कुलीचाः शीलशालिनः । भवन्ति धर्मतो दक्षाः, शशाङ्कयशसः स्थिराः ॥६२॥8 विरूपा दुर्भगा द्वेन्या, दुष्कुला शीलनाशिनः । जायन्वे पापतो मूढा, दुर्यशोभागिनश्चलाः ॥ ६३॥ ब्रजन्ति सिन्धुरारूढा, धर्मतो जनपूजिताः। धावन्ति पुरतस्तेषां, पापतो जननिन्दिताः ॥ ६४ ॥ धाम्मिकाः कान्तयाऽऽश्लिष्टाः, शेरते मणिमन्दिरे । पापिनो रक्षणं तेषां, कुर्वते शवपाणयः ॥६५॥ भुञ्जते मिष्टमाहारं, सौवर्णाऽमत्रसंस्थितम् । धार्मिकाः पापिनस्तेषामुत्सृष्टं भषणा इक ॥ ६६॥ चक्रिणस्तीर्थकर्तारः, केशवाः प्रतिकेशवाः । सर्वे धर्मेण जायन्ते, कीर्त्तिव्यासजयत्रयाः ॥ ६७ ॥ वामनाः यामनाः खजा, रोमशाः किङ्कराः शठाः। जायन्ते पापतो नीचाः, सर्वलोकविनिन्दिताः ॥ ६८॥ प्रशस्तं धर्मतः सर्वमप्रशस्तमधर्मतः। विख्यातमिति सर्वत्र, बालिशैरपि बुध्यते ॥ ६९ ॥ प्रत्यक्षमिति विज्ञाय, धर्माधर्मफलं बुधाः । अधर्म सर्वथा मुक्त्वा, धर्म कुर्वन्ति सर्वदा ॥ ७० ॥ योगिनो वचसा तेन, प्रीणिता निखिला सभा। पर्जन्यस्येव तोयेन, मेदिनी तापनोदिता ॥ ७१॥ कृत्वैवं देशनां योगी, जितशत्रुसुतं विदन् । तं जगादेति सद्धर्मपक्षपातविचक्षणः ॥७२॥
॥३
॥
Jan Education
For Private Personel Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126