Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 69
________________ सार्धं पवनवेगेन, गत्वा पश्चिमया दिशा । दक्षः पुष्पपुरं भूयं(यः), प्रविष्टो धर्मवासितः ॥ ८.१॥ प्रताड्य खेचरो भेरी-मारूढः कनकासने । स वाद्यागमनाऽऽशङ्का, कुर्वाणो द्विजमानसे ॥८०२॥ निर्गता ब्राह्मणाः सर्वे, श्रुत्वा तं भेरिनिःखनम् । पक्षपातपरा मेघप्रध्यानं शरभा इव ॥ ८.३॥ बादं करोषि किं साधो !, ब्राह्मणैरिति भाषिते । खेटपुत्रोऽवदद्विप्रा!, वादनामापि वेनि न॥८०४॥ द्विजाः प्राहुस्त्वया भेरी, किं मूर्खेण सता हता? । खेटेनोक्तं हता भेरी, कौतुकेन मया द्विजाः!॥८०५॥ आजन्मापूर्वमालोक्य, निविष्टः काञ्चनासने। न पुनर्वादिदर्पण, मह्यं मा कोपिषुर्द्विजाः! ॥८०६॥ विप्रैः पृष्टो गुरुर्भद्र, कस्त्वदीयो निगद्यताम् । स प्राह मे गुरु स्ति, तपोऽग्राहि मया खयम् ॥ ८०७॥ अभाणिषुस्ततो विप्राः, सुबुद्धे ! गुरुणा विना । कारणेन त्वयाऽग्राहि, तपः केन ? खयं वद ॥ ८०८॥ खगाङ्गभूरुवाचातः, कथयामि परं द्विजाः!। विभेमि श्रूयतां स्पष्टं, तथाहि निगदामि वः॥ ८०९॥ हरिनामाभवन्मन्त्री, चम्पायां गुणवर्मणः । एकाकिना शिला दृष्टा, तरन्ती तेन वारिणि ॥ ८१०॥ आश्चर्ये कथिते तत्र, राज्ञाऽसौ वन्धितो रुषा । पाषाणः प्लवते तोये, नेत्यश्रद्दधता सता ॥ ८११ ॥ गृहीतो ब्राह्मणः क्वापि, पिशाचेनैष निश्चितम् । कथं ब्रूतेऽन्यथेदृक्षमसंभाव्यं सचेतनः ॥८१२॥ असत्यं गदितं देव !, मयेदं मुग्धचेतसा । इत्येवं भणितं तेन, राज्ञाऽसौ मोचितः पुनः॥ ८१३॥ Jain Education in For Private & Personel Use Only N jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126