Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शरीरे दृश्यमानेऽपि, न चैतन्यं विलोक्यते । शरीरं च न चैतन्यं, यतो भेदस्तयोस्ततः॥ १२६८ ॥ चक्षुषा वीक्ष्यते गात्रं, चैतन्यं संविदा यतः। भिन्नज्ञानोपलम्भेन, ततो भेदस्तयोः स्फुटम् ॥ १२६९ ॥ प्रत्यक्षमीक्ष्यमाणेषु, सर्वभूतेषु वक्तृषु । अभावः परलोकस्य, कथं मूर्विधीयते ॥ १२७०॥ दुग्धाम्भसोर्यथा भेदो, विधानेन विधीयते । तथात्मदेहयोः प्राज्ञैरात्मतत्त्वविचक्षणैः ॥ १२७१ ॥ बन्धमोक्षादितत्त्वानामभावः क्रियते यकैः । सर्वदर्शननिन्येभ्यस्तेभ्यो धृष्टोऽस्ति कः परः ॥ १२७२ ॥ कर्मभिर्बध्यते नात्मा, सर्वथा यदि सर्वदा । संसारसागरे घोरे, बम्भ्रमीति तदा कथम् ॥ १२७३ ॥ सदा नित्यस्य शुद्धस्य, ज्ञानिनः परमात्मनः । व्यवस्थितिः कुतो देहे, दुर्गन्धामध्यमन्दिरे ? ॥ १२७४ ॥ सुखदुःखादिसंवित्तिर्यदि देहस्य जायते । निर्जीवस्य तदा नूनं, भवन्ती केन वार्यते ? ॥ १२७५ ॥ आत्मा प्रवर्तमानोऽपि, यत्र तत्र न बध्यते । बन्धबुद्धिमकुर्वाणो, नेदं वचनमञ्चति(श्चितम्) ॥ १२७६ ॥ कथं निर्बुद्धिको जीवो, यत्र तत्र प्रवर्तते । प्रवृत्तिन मया दृष्टा, पर्वतानां कदाचन ॥ १२७७ ॥ मृत्युवुद्धिमकुर्वाणो, वर्तमानो महाविषे । जायते तरसा किं न, प्राणी प्राणविवर्जितः ? ॥ १२७८ ॥ यद्यात्मा सर्वथा शुद्धो, ध्यानाभ्यासेन किं तदा ? । शुद्धे प्रवर्तते कोऽपि, शोधनाय न काञ्चने ॥ १२७९ ॥ नात्मनः साध्यते शुद्धिर्ज्ञानेनैव कदाचन । न भेषजावबोधेन, व्याधिः क्वापि निहन्यते ॥ १२८०॥
Jain Education H
ana
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126