Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
ional
यः कामानलसन्तप्तां, परनारीं निषेवते । आश्लेष्यते स लोहस्त्रीं श्वभ्रे वज्राग्नितापिताम् ॥ १४५० ॥ इति ज्ञात्वा परैर्हेया, परकीया नितम्बिनी । क्रुद्धस्येव कृतान्तस्य, दृष्टिर्जीवितघातिनी ॥ १४५१ ॥ सन्तोषेण सदा लोभः, शमनीयोऽतिवर्द्धितः । ददानो दुस्सहं तापं, विभावसुरिवाम्भसा ।। १४५२ ॥ धनं धान्यं गृहं क्षेत्रं, द्विपदं वा चतुष्पदम् । सर्वे परिमितं कार्य, सन्तोपत्रतवर्त्तिना ॥ १४५३ ॥ धर्मः कषायमोक्षेण, नारीसङ्गेन मन्मथः । लाभेन वर्धते लोभः, काष्ठक्षेपेण पावकः ॥ १४५४ ॥ अर्जितं सन्ति भुञ्जना द्रविणं बहवो जनाः । नारकीं सहमानस्य, न सहायोऽस्ति वेदनाम् ॥ १४५५ ॥ त्रिदशाः किङ्करास्तस्य, हस्ते तस्यामरद्रुमाः । निधयो मन्दिरे तस्य, सन्तोषो यस्य निश्चलः ॥ १४५६ ॥ लब्धाशेषनिधानोऽपि स दरिद्रः स दुःखितः । सन्तोषो हृदये यस्य, नास्ति कल्याणकारणम् ॥ १४५७ ॥ दिग्देशाऽनर्थदण्डेभ्यो, विनिवृत्तिर्गुणव्रतम् । त्रिविधं श्रावकैस्रेधा, पालनीयं शिवार्थिभिः ॥ १४५८ ॥ यद्दशखपि काष्ठासु, विधाय विधिनाऽवधिम् । न ततः परतो याति, प्रथमं तद्गुणत्रतम् ॥ १४५९ ॥ त्रैलोक्यं लङ्घमानस्य, तीव्रलोभविभावसोः । अकारि स्खलनं तेन येनाशा नियता कृता ॥ १४६० ॥ यद्देशस्याधिं कृत्वा, गम्यते न दिवानिशम् । ततः परं बुधैरुक्तं, द्वितीयं तद्गुणत्रतम् ॥ १४६१ ॥ पूर्वोदितं फलं सर्व, ज्ञेयमत्र विशेषतः । विशिष्टे कारणे कार्य, विशिष्टं केन वार्यते ? ॥ १४६२ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126