Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 120
________________ धर्म परीक्षा. ॥ ५७॥ पञ्चधाऽनर्थदण्डस्य, धर्मार्थानुपकारिणः । पापोपकारिणस्त्यागो, विधेयोऽनर्थमोचिभिः ॥ १४६३ ॥ शिखिमण्डलमार्जार-सारिकाशुककुक्कुटाः। जीवोपघातिनो धार्याः, श्रावकैन कृपापरैः ॥ १४६४ ॥ पाशं दण्डं विषं शस्त्रं, हलं रजुं हुताशनम् । धात्री लाक्षामयो नीली, नान्येभ्यो ददते बुधाः ॥ १४६५ ॥ संघानं पुष्पितं विद्धं, कुथितं जन्तुसङ्कुलम् । वर्जयन्ति सदाहारं, करुणापरमानसाः ॥ १४६६ ॥ शिक्षाव्रतं चतुर्भेदं, सामायिकमुपोषितम् । भोगोपभोगसङ्घयानं, संविभागोऽशने तिथेः ॥ १४६७ ॥ जीविते मरणे सौख्ये, दुःखे योगवियोगयोः । समानमानसैः कार्य, सामायिकमतन्द्रितः ॥ १४६८॥ यासना द्वावशावर्ता, चतुर्विधशिरोनतिः। त्रिकालवन्दना कार्या, परव्यापारवर्जितैः ॥ १४६९॥ मुक्त्वा भोगोपभोगेन, पापकर्माविमोचि(गोपि)ताम् । उपवासः सदा शक्त्या, कार्यः पर्वचतुष्टये ॥१४७०॥ निवसन्ति हृषीकाणि, निवृत्तानि स्वगोचरात् । एकीभूयात्मना यस्मि-त्रुपवासमिमं विदुः ॥ १४७१ ॥ चतुर्विधाशनत्यागं, विधाय विजितेन्द्रियैः । ध्यानस्वाध्यायसन्निष्ठेरास्यते सकलं दिनम् ॥ १४७२ ॥ कृत्यं भोगोपभोगानां, परिमाणं विधानतः। भोगोपभोगसंख्यानं, कुर्वता व्रतमर्चितम् ॥ १४७३॥ माल्यगन्धानताम्बूलभूषारामाम्बरादयः । सद्भिः परिमितीकृत्य, सेव्यन्ते व्रतकातिभिः ॥ १४७४ ॥ गृहागतानां साधूनां, संविभागं स्वभोजनात् । अतिथिसंविभागाख्यव्रतस्थः कुरुते गृही ॥१४७५ ॥ Jain Education in For Private & Personel Use Only Polliw.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126